________________
रघुवंश महाकाव्ये
महाभूतगुणवदेवेति यावत् परस्य = अन्यस्य, अर्थ | = प्रयोजनमेव, एकं = मुख्यं, फलं = परिणाम:, येषान्ते, परार्थेक फलाः आसन् = अभूवन् ।
३२
समा०-- समाधीयते अनेन इति समाधिः, महाभूतानाम् समाधिः महाभूतसमाधिः तेन महाभूतसमाधिना । परस्य अर्थः परार्थः, परार्थः एव एकम् फलम् येषाम् ते परार्थैकफलाः ।
अभि-ब्रह्मा यया कारणसामग्रया पृथिव्यादि महाभूतपञ्चकं निर्मितवान्, तयैव कारणसामग्रया राजानं दिलीपमपि ससर्ज इत्यहमुत्प्रेक्षे, अत एव दिलीपस्य सर्वे गुणाः, महाभूतानां गुणवदेव परार्थैकप्रयोजना अभूवन् ।
हिन्दी -- ब्रह्माजी ने जिस कारण सामग्री से 'पृथिवी जल अग्नि वायु आकाश' पंच महाभूतों को बनाया, उसी कारण सामग्री से महाराजा दिलीप को भी बनाया, यह निश्चित है, इसी लिये जैसे पंचभूतों के गुण दूसरों के लिये ही हैं वैसे ही राजा दिलीप के सभी गुण भी दूसरों के ही लिये थे ||२९|| स वेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्वी शशा सैकपुरीमिव ॥ ३०॥
सञ्जीविनो---स दिलीपः । वेलाः समुद्रकूलानि । 'वेला कूलेऽपि वारिधेः' इति विश्वः । ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम् । 'स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः ।' इत्यमरः । परितः खातं परिखा दुर्गवेष्टनम् । 'खातं खेयं तु परिखा' इत्यमरः । 'अन्येष्वपि दृश्यते' इत्यत्रापि शब्दात्खनेर्डप्रत्ययः । अपरिखाः परिखाः संपद्यमानाः कृताः परिखीकृताः सागरा यस्यास्ताम् । अभूततद्भावे चित्रः । अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशासनामुर्वी मेकपुरीमिव शशास । अनायासेन शासि - तवानित्यर्थः ॥ ३० ॥
अन्वयः -- वेलावप्रवलयां, परिखीकृतसागराम्, अनन्यशासनाम्, उर्वीम्. एकपुरीम्, इव, शशास ।
वाच्य० तेन वेलावप्रवलया, परिखीकृतसागरा, अनन्यशासना, उर्वी, एक पुरी, इव, शशासे ।
व्याख्या -- सः = दिलीप: वप्रा = प्राकारा, एव वलयाः = वेष्टनानि, इति वप्रवलया: वेला:= समुद्रकूलानि = समुद्रतटानीत्यर्थः एव वप्रवलयाः यस्याः सा
"