________________
प्रथमः सर्गः
३१
=
= दष्टा, इति, उरगक्षता, अंगुली = करशाखा, इव यथा, "तस्य" त्याज्यः = त्यक्तु योग्यः परिहार्यः " आसीत् " ।
समा० -- द्वेष्टुम् योग्य। द्वेष्यः, प्रीणाति इति प्रियः, उरसा गच्छति इति उरगः, उरगेणक्षता उरग क्षता, त्यक्तुम् योग्यः त्याज्यः ।
अभि० - यथा रोगार्त्तस्य तिक्तौषधमपि प्रियं भवति तथैव दिलीपस्य शिष्टपुरुषः शत्रुरपि प्रियः, दुष्टः बन्धुरपि सर्पदष्टांगुलीव परिहरणीयोऽभूत् । हिन्दी- - सज्जन पुरुष, शत्रु होते हुए भी दिलीप का वैसे ही प्रिय था जैसे रोगी को कड़वी औषधि । और दुष्ट मनुष्य प्रिय बन्धु होते हुए भी वैसे ही त्याज्य था, जैसे सांप से डसी अँगुली ॥२८॥
तस्य परोपकारित्वमाह -
तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन्परार्थै कफला गुणाः ॥२६॥
सञ्जीविनी — वेधाः स्रष्टा । 'स्रष्टा प्रजापतिर्वेधा' इत्यमरः । तं दिलीपम् । समाधीयतेऽनेनेति समाधिः कारणसामग्री । महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज । नूनं ध्रुवम् । इत्युत्प्रेक्षा । तथाहि । तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परप्रयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन् । महाभूतगुणोपमानेन कारणगुणाः कार्यं संक्रामन्तीति न्यायः सूचितः ॥२९॥
1
अन्वयः - वेधाः, तं महाभूतसमाधिना, विदधे नूनं, तथा हि, तस्य, सर्वे, गुणाः, परार्थेकफलाः आसन् ।
वाच्य० – वेधसा, महाभूतसमाधिना स विदधे नूनं, तथाहि तस्य सर्वेः, गुणैः = परार्थैकफलैः, अभूयत ।
व्याख्या -- वेधाः = प्रजापतिः 'स्रष्टा प्रजापतिर्वेधाः' इत्यमरः । तं = राजानं = दिलीपं. समाधीयतेऽनेन इति समाधिः, महाभूतानां पृथिव्यप्तेजोवाय्वाकाशानां, समाधिः = कारणसामग्री, इति महाभूतसमाधिस्तेन महाभूतसमाधिना, विदधे = ससर्ज = विरचितवानित्यर्थः, नूनं = ध्रुवमित्युत्प्रेक्षा, तथाहि = यतः तस्य = राज्ञो दिलीपस्य, सर्वे = सम्पूर्णाः, गुणाः = दयादाक्षिण्यादयः, रूपरसादि