________________
रघुवंशमहाकाव्ये ___ व्याख्या-राजानः = अन्ये भूपालाः, रक्षितुः= पालयितुः भयेभ्यस्त्रातुरित्यर्थः, तस्य = दिलीपस्य, यशः = कीर्ति, न = नहि, अनु यय: अनुचक्रुः, किल= खलु, 'कुतः' यत् = यस्मात्, तस्करस्य = चौरस्य, भावः कर्म वा, तस्करता= चौर्य, परेषाम् = अन्येषां, स्वानि = धनानि, तेभ्यः परस्वेभ्यः, 'स्वोऽस्त्रियां धने' इत्यमरः । व्यावृत्ता=निवृत्ता, 'सती' श्रुती= कर्णे, स्थिता= अस्थात् ।
समा०-तस्करस्य • भाव: तस्करता, परेषाम् स्वानि परस्वानि तेभ्यः परस्वेभ्यः ।
अभि०--भयकारणेभ्यस्त्राणकर्तृदिलीपस्य कीर्तिम्, अन्ये भूपाला नानु कृतवन्तः यतोहि दिलीपराज्ये तस्करत्वं केवलं श्रुतिगोचरमेव नतु स्वरूपतोऽस्तीति।
हिन्दी--भय के कारणों से रक्षा करने वाले राजा दिलीप के यश को कोई भी राजा न पा सका । क्योंकि उनके राज्य में चोरी यह शब्द केवल सुनने में ही आता था. अर्थात् दिलीप के राज्य में कोई किसी के धन का अपहरण नहीं करता था, इसलिए उनके यश की भी चोरी न हुई ॥२७॥
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥२८॥ सजीविनी--शिष्टो जनो द्वेष्यः शत्ररपि । आर्तस्य रोगिण औषधं यथोषधमिव । तस्य संमतोऽनुमत आसीत् । दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि । उरगक्षता सर्पदष्टांगुलीव। 'विन्द्याद् बाहुमपि दुष्टमात्मनः' इति न्यायात त्याज्य आसीत् । तस्य शिष्ट एव बन्धुदुष्ट एव शत्रुरित्यर्थः ॥२८॥
अन्वयः-शिष्टः, द्वेष्या, अपि, आर्तस्य, औषधं, यथा, तस्य, सम्मता, 'आसीत्' दुष्टः, प्रिया, अपि, उरगक्षता, अङ्गालीव, "तस्य", त्याज्य, 'आसीत्"।
वाच्य०--शिष्टेन द्वेष्यणापि, औषधेन यथा तस्य सम्मतेनाभूयत, दुष्ठेन प्रियेणापि, उरगक्षतया, अंगुल्या, इव, त्याज्येन अभूयत । __व्याख्या-शिष्टः= सज्जनः, द्वेष्यः= शत्रु:, अपि, आर्तस्य =पीडितस्य = रोगिण इत्यर्थः । औषधं = भेषजं, भेषजौषधभैषज्यानि' इत्यमरः। यथा = इव,तस्य = राज्ञो दिलीपस्य, सम्मतः= अनुमतः = प्रिय इत्यर्थः, आसीत् इति शेषः, दुष्टः = दुर्जनः, प्रियः= प्रेमास्पदीभूतः, मित्रमिति यावत्, अपि, उरगण = सर्पण, क्षता