________________
प्रथमः सर्गः
- २९ वाच्य० - तेन यज्ञाय गौदुहे, मघोना सरयाय द्यौः "दुदुहे" उभाभ्यां सम्पद्विनिमयेन भुवनद्वयं दधे । __व्याख्या-सः= राजा दिलीपः, यज्ञाय = यज्ञं कर्तु, गां= पृथिवीं, दुदोहअदुहत, करग्रहणात् पृथिवीं रिवतां चकारेत्यर्थः, मघवा=इन्द्रः, 'इन्द्रो मरुत्वान्मघवा विडोजा: पाकशासनः इत्यमरः । सस्याय =धान्याय, दिवं = स्वर्ग दुदोह, स्वर्गलोकात् मृत्युलोके वृष्टिमुत्पादयामासेत्यर्थः, 'एवम्' उभौ= इन्द्रदिलीपी, सम्पदः=सस्यवृष्टिरूपस्य, विनिमयः= परस्परमादानप्रदानं, तेन सम्पद्विनिमयेन, भुवनयोः= स्वर्गभूलोकयोः, द्वयं = द्वितयमिति भुवनद्वयं, दधतुः= पुपुषतुः ।
समा०-सम्पदः विनिमयः सम्पद्विनिमयः तेन सम्पद्विनिमयेन । भुवनयोः द्वयम् भुवनद्वयं तत् ।
अभि०--राजा दिलीपःप्रजाभ्यः करं गहीत्वा यज्ञरिन्द्रलोकं पुपोष, इन्द्रश्च वर्षणद्वारा धान्यादि संवय मर्त्यलोकं पुपोष ।
हिन्दी--राजा दिलीप, यज्ञ करने के लिये पृथिवी को दुहता था, 'अर्थात् प्रजा से कर लेकर यज्ञ करता था' और इन्द्र अन्त के लिये स्वर्ग को दुहता था, अर्थात् वर्षा करके अन्न को बढ़ाता था। इस प्रकार इन्द्र और दिलीप आपस में अपनी २ सम्पत्ति का आदान प्रदान करके दोनों भुवनों की रक्षा करते थे ॥२६॥
न किलानुययुस्तस्य राजानो रक्षितुर्यशः।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥२७॥ सञ्जीविनी--राजानोऽन्ये नृपा रक्षितुर्भयेभ्यस्त्रातुस्तस्य राज्ञो यशो नानुययः किल नानचक्रुः खलु । कुतः । यद्यस्मात्कारणात्तस्करता चोर्ये परस्वेभ्यः परधनेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुती वाचकशब्दे स्थिता प्रवृत्ता। अपहार्यान्तराभावात्तस्करशब्द एवापहृत इत्यर्थः । अथवा 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति न्यायेन शब्दे स्थिता स्फुरिता न तु स्वरूपतोऽस्तीत्यर्थः॥२७॥
अन्वयः--राजानः, रक्षितुः, तस्य, यशा, न, अनुययुः किल, यत्, तस्करता, परस्वेभ्यः, व्यावृत्ता, 'सतो' श्रुतौ, स्थिता।
वाच्य०--राजभिः रक्षितुस्तस्य यशः, नानुयये किल, यत् तस्करतया परस्वे- : भ्यो व्यावृत्तया 'सत्या' श्रुती स्थितयाऽभावि ।