________________
. रघुवंशमहाकाव्ये वाच्य०--मनीषिणस्तस्य, अर्थकामाभ्यामपि धर्मेणेव अभूयत ।
व्याल्या-दण्डमर्हन्तीति दण्डयास्तान् दण्डयोग्यान्, अपराधिन इत्यर्थः, 'एव', स्थित्यं = लोकप्रतिष्ठाय, दण्डयतः=शिक्षयतः, प्रसूतये = सन्तानाय, 'एवं परिणेतुः= कृतविवाहस्य, मनस ईषा मनीषा, मनीषा अस्यास्ति, इति मनीषी तस्य मनीषिणः = पण्डितस्य, दोषज्ञस्येत्यर्थः । तस्य = राज्ञो दिलीपस्य, अर्थः=धनं, कामः विषयेच्छा चेति, अर्थकामौतदाख्यपुरुषार्थो, इत्यर्थः, अपि धर्मः सुकृतमेव, आस्तां= जाती।
समा०--दण्डम् अर्हन्ति इति दण्डयाः तान् दण्डयान्, परिणयति इति परिणेता तस्य परिणेतुः, मनसः ईषा मनीषा, सा अस्य अस्ति इति मनीषी तस्य मनीषिणः, अर्थश्च कामश्च अर्थकामौ ।
अभि०--लोकमर्यादारक्षणाय, अपराधिनामपराधानुसारं दण्डदानात्, सन्तानेच्छयव विवाहसंस्कारकरणात् तस्य दिलीपस्य, अर्थकामावपि धर्म एव, आस्ताम् ।
हिन्दी- लोक मर्यादा की रक्षा के लिये अपराधियों को अपराध के अनुकूल दण्ड देनेवाले और केवल पुत्र के लिये विवाह करने वाले विद्वान् राजा दिलीप का अर्थ और काम भी धर्म ही था।॥२५॥
दुदोह गां स यज्ञाय सस्याश मघवा दिवम् ।
संपद्विनिमयेनोभो दधतुर्भुवनद्वयम् ।।२६।। __ सञ्जीविनी--स राजा यज्ञाय यज्ञं कतु गां भुवं दुदोह। करग्रहणेन रिक्तां चकारेत्यर्थः। मघवा देवेन्द्रः सस्याय सस्यं वर्धयितुं दिवं स्वर्ग दुदोह। धुलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः । 'क्रियार्थोपपदस्य०' इत्यादिना यज्ञसस्याभ्यां चतुर्थी । एवमुभी संपदो विनिमयेन परस्परं आदानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुषतुः। राजा यज्ञैरिन्द्रलोकमिन्द्रश्चोदकेन भूलोकं पुपोषेत्यर्थः । उक्तं च दण्डनीतौ- राजा त्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम् । प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत् ॥' इति ॥२६॥
अन्वयः-सः, यज्ञाय, गां, दुदोह, मघवा, सस्याय, विवं, "दोह" एवम्" उभौ, सम्पद्विनिमयेन, भुवनद्वयं, बघतुः।