________________
२७६
रघुवंशमहाकाव्ये उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदशमिष्टप्समागमनिवृति वनितयानितया रजनीवधूः ।।३८! संजी०-उपययाविति । मधुना मधुसमयेन खण्डिता ह्रासं गमिता। क्षीयन्ते खलूत्तरायणे रात्रयः; खण्डिताख्या च नायिका ध्वन्यते। हिमकरोदयेन चन्द्रोदयेन पाण्डुर्मुखस्य प्रदोषस्य वक्त्रस्य च छविर्यस्याः सा रजन्येव वधूः । इष्टसमागमनिर्वृति प्रियसंगमसुखम् । अनितयाप्राप्तया। 'इण गतौ' इति धातोः कर्तरि क्तः । वनितया सदृशं तुल्यं तनुतां न्यूनता काश्यं चोपययौ ॥३८॥
अन्वयः-मधुखण्डिता हिमकरोदयपाण्डुमुखच्छवि: रजनीवधूः इष्टसमागमनिवृतिम् अनितया वनितया सदृशं तनुताम् उपययौ ।
व्याख्या--मधुना वसन्तर्तुना खण्डिता-हासं प्रापिता इति मधुखण्डिता न्यूनीकृतेत्यर्थः, खण्डिताशब्देन खण्डिता नायिकापि ध्वन्यते । उत्तरायणे रात्रयः हस्वाः भवन्ति, इति भावः । हिमाः कराः यस्य स हिमकरः । हिमकरस्य चन्द्रस्य उदयः-याविर्भावस्तेन पाण्डुः पाण्डरा मुखस्य-प्रदोषस्य आननस्य च छवि: कान्तिः यस्याः सा हिमकरोदयपाण्डुमुखच्छविः। रजन्ति-अनुरक्ताः भवन्ति रागिणो यस्यां सा रजिनी = रात्रिरेव वधूः वनिता, इति रजनीवधूः । इष्टस्यवाञ्छितस्य प्रियस्येत्यर्थः समागमः-संगमः प्राप्तिः, इष्टसमागमस्तेन या निर्वृतिः= सुखं ताम् इष्टसमागमनिर्वृतिम् । न इता अनिता, तया अनितया अप्राप्तया वमति स्नेहमिति वनिता, वामः कामोऽस्ति यस्याः सा वा वनिता तया वनितया = स्त्रिया सदृशं-तुल्यं तनो वः तनुता तां तनुतां-न्यूनतां कृशतां च उपययौ जगाम । ___ समासः-मधुना खण्डिता, मधुखण्डिता। मुखस्य छविरिति मुखच्छविः । हिमकरस्य उदयः हिमकरोदयेन पाण्डुः मुखच्छविर्यस्याः सा हिमकरोदयपाण्डुमुखच्छविः । रजनी एव वधूरिति रजनीवधूः । इष्टस्य समागमः इष्टसमागस्तेन निर्वृतिस्ताम् इष्टसमागमनिर्वृतिम् । न इता अनिता तया अनितया ।
हिन्दी-वसन्त ऋतु के आगमन से ह्रास होती हुई तथा चन्द्रोदय से पीले मुख ( सायंकाल प्रदोष ) वाली रात्रि रूपी स्त्री उसी प्रकार छोटी हो गई जैसे कि अपने प्रिय के समागम से प्राप्त होने वाले सुख को न पानेवाली वनिता