SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ २७५ नवमः सर्गः अव्यक्तमधुरं ध्वनन्त उदकलोलविहंगमा जलप्रियपक्षिणो हंसादयो यासु ता . मदकलोदकलोलविहंगमा गृहेषु दीर्घिका वाप्यः । स्मितेन चारुतराण्याननानि यास ताः श्लथाः शिञ्जिता मुखरा मेखला यासां ताः। शिजितेति कर्तरि क्तः । स्त्रिय इव शुशुभिरे ॥३७॥ अन्वयः- विकचतामरसाः मदकलोदकलोलविहंगमाः गृहदीर्घिकाः स्मितचारुतराननाः श्लथशिञ्जितमेखलाः स्त्रियः इव शुशुभिरे। व्याख्या-तामरेजले सस्ति-स्वपिति तत् तामरसम् । (षस स्वप्ने) तम्यते इति तामं रस्यते इति रसं तामञ्च तद्रसमिति तामरसमिति वा । विकचानि-प्रफुल्लानि तामरसानि-कमलानि यासु ताः विकचतामरसाः । मदनं मदः । कड़ति-माद्यति अनेनेति कलः । मदेन हर्षेण कला -मधुरास्फुटं ध्वनन्तः इति मदकलाः । उदकेषुजलेषु लोलाः-चञ्चलाः क्रीडन्त इत्यर्थः इति उदकलोलाः । विहायसि गच्छन्तीति विहंगमाः। मदकलाः उदके लोला:-जलप्रियाश्च विहंगमा: पक्षिणः यासु ताः मदकलोदकलोलविहंगमाः । दृणतीति दीर्घा दीर्घा एव दीर्घिकाः । गृहेषु-भवनेषु दीर्घिकाः == वाप्यः इति गृहदीर्घिकाः ( कर्तृपदम् ) अतिशयेन चारूणि चारुतराणि स्मितेन ईषद्धास्येन चारुतराणि अतिसुन्दराणि अाननानि-मुखानि यासां ता स्मितचारुतराननाः । मखं-गति लातीति मेखला। श्लथाः -प्रहढा:-सस्ता इत्यर्थः शिञ्जिताः-मुखराः ध्वनन्त्यः मेखलाः-रशनाः यासां ताः श्लशिञ्जितमेखलाः, स्त्रियः कामिन्यः इव-यथा शुशुभिरे शोभन्ते स्म । समासः-विकचानि तामरसानि यासु ताः विकचतामरसाः । स्मितेन चारुतराणि आननानि यासां ताः स्मितचारुतराननाः। श्लथाः शिञ्जिताः मेखलाः यासां ताः श्लथशिञ्जितमेखलाः । मदेन कलाः उदके लोलाः विहंगमाः यासु ताः मदकलोदकलोलविहंगमाः । गृहेषु दीर्घिका इति गृहदीर्धिकाः। हिन्दी-( लोगों के घरों की बालियों में ) कमल खिले हुए थे, तथा जल में रहनेवाले पक्षी ( हंस ) आनन्द से मधुर ध्वनि उनमें कर रहे थे। ( ऐसी ) घरों की बावलियाँ उन स्त्रियों के समान लग रही थीं जो कि मुस्कुराने से अधिक सुन्दर मुखवाली थी तथा जिनकी तगड़ी ढीली होने के कारण बज रही थी। अर्थात् कमलों व हंसों से भरी वे वापियाँ, हसती हुई और ढीली होने से बजती हुई तगड़ी वाली स्त्रियों के समान प्रतीत हो रही थीं ॥३७॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy