________________
२७०
रघुवंशमहाकाव्ये च–'मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुनपुंसकयोर्मधुः ॥' इति । पतिषु विषये रसखण्डनवर्जितमनुरागभङ्गरहितं यथा तथा निर्वि. विशुः । परस्परानुरागपूर्वकं पतिभिः सह पपुरित्यर्थः ॥३६॥ ___अन्वयः-अंगनाः ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरं स्मरसखं मधुं, पतिषु रसखण्डनवर्जितं यथा स्यात् तथा निर्विविशुः ।
व्याख्या-प्रशस्तानि अंगानि यासां साः अंगना:-कामिन्यः ललिताःमधुराश्च ते विभ्रमाः-विलासाः = हावभावादिस्त्रीचेष्टाः इत्यर्थः, इति ललितविभ्रमास्तेषां बन्धः घटना तत्र विचक्षणः चतुरस्तं ललितविभ्रमबन्धविचक्षणम् स्त्रीणां मधुरहावभावादिशृंगारचेष्टाजनने उपदेशने च पण्डितमित्यर्थः, मधुविशेषणमिदम् । सुरभिणा-मनोहरेण गन्धेन मद्यपरिमलेन पराजितः निर्जितः केसर:= वकुलपुष्पम् येन तम् सुरभिगन्धपराजितकेसरम् ( केसराः सन्ति अस्य, केजले सरतीति वा केसरः बकुलवृक्षः ) स्मरस्य-कामस्य सखा-मित्रमिति तम् स्मरसखम् मन्मथवर्धकमित्यर्थः मधु-मद्यं पतिषुप्रियेषु विषये रस्यते-आस्वाद्यते इति रसः । रसस्य अनुरागस्य खण्डनं भंगः तत् वर्जितम्=रहितं यस्मिन् कर्मणि तत् यथा स्यात्तथा निर्विविशुः-पपुः । वसन्ते कामिन्यः पतिभिः सह परस्परमतीवानुरागपूर्व मधुं पपुरिति भावः। ___ समासः-ललिताश्च ते विभ्रमाः, ललितविभ्रमास्तेषां बन्धस्तस्मिन् विचक्षणस्तम् ललितविभ्रमबन्धविचक्षणम् । सुरभिश्चासौ गन्धः सुरभिगन्धस्तेन पराजितः केसरः येन तम् सुरभिगन्धपराजितकेसरम् । स्मरस्य सखा तम् स्मरसखम् । रसस्य खण्डनं रसखण्डनं तत् वर्जितं यस्मिन् कर्मणि तत् रसखण्डनवर्जितम् ।
हिन्दी-तिरछी नजर आदि मधुर हाव भाव के कराने में परम चतुर, तथा मनोहर सुगन्धि से मौलसरी को भी हराने वाले एवं कामदेव के मित्र ( कामोद्दीपक ) मद्य को स्त्रियों ने अपने पतियों के साथ परस्पर प्रेमपूर्वक पीया ॥३६॥
शुशुभिरे स्मित वारुतराननाः स्त्रिय इव इलथशिब्जितमेखलाः । विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः !॥३७ । संजी०-शुशुभिर इति । विकचतामरसा विकसितकमलाः। मदेन कला