________________
नवमः सर्ग:
२७३
व्याख्या-श्रूयन्ते शब्दाः याभिस्ताः श्रुतयः। शोभनानि खानि अनेन तत् सुखम् । श्रुतीनां-कर्णानां सुखम् आनन्दः यैस्ते श्रुतिसुखाः, भ्रमन्तीति भ्रमराः भ्रमराणां मधुलिहां स्वनाः शब्दा इति भ्रमरस्थनाः। श्रुतिसुखाश्च ते भ्रमरस्वनाः इति श्रुतिसुखभ्रमरस्वनाः ते एव गीतयः गानानि यासां ताः श्रुतिसुखभ्रमरस्वनगीतयः। दन्तानां रुचः दन्तरुचः कुसुमानि-पुष्पाणि एव कोमला: सुकुमाराः दन्तरुचः-दशनकान्तयः यासां ताः कुसुमकोमलदन्तरुचः । उपगतं वनमिति उपवनम् । उपवनस्य पारामस्य-कृत्रिमवनस्येत्यर्थः अन्ते निकटे प्रान्ते वा याः लताः वल्लयः इति उपवनान्तलताः पवनेन = वायुना पाहतानि कम्पितानि तैः किञ्चित् लसन्तीति किसलयानि तः किसलयः पल्लवैः लयनं लयः गीतवाद्यपादादिन्यासानां क्रियाकालयोः साम्यम् लयेन अभिनयेन सह वर्तन्ते सलयास्तैः सलयः अत्र लयानुगतः अभिनयोऽर्थः लयस्य लक्षणयेति भावः । पाणिभिः हस्तः इव यथा बभुः भान्ति स्म । लतानां नर्तकीनां च साम्यं प्रकटीकृतम् ।।
समासः-श्रुतीनां सुखं यैस्ते श्रुतिसुखाः, श्रुतिसुखाः भ्रमराणां स्वनाः एव गीतयः यासां ताः श्रुतिसुखभ्रमरस्वनगीतयः । दन्तानां रुचः दन्तरुचः कुसुमानि एव कोमलाः दन्तरुचः यासां ताः कुसुमकोमलदन्तरुचः, उपवनस्यान्ते लताः उपवनान्तलताः । पवनेन पाहतास्तः पवनाहतैः । लयेन सह सन्तीति सलयास्तैः सलयः।
हिन्दी-कानों को मधुर लगनेवाले भौंरों के गुजाररूपी गीतवाली. तथा पुष्परूपी कोमल दाँतों की कान्ति वाली (खिले फूलों से मानों मुसकरा रही हैं ) वनप्रान्त की खिली लताएं, वायु से हिलाये गये नव पल्लवों से ऐसी सुशोभित हो रही थीं जैसे कि अभिनय प्रदर्शन करते हुए हाथों से नर्तकी सुन्दर लगती हैं ॥३५॥
ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपगजितकेसरम् ।। पतिषु निर्विविशुमधुमङ्गनाः स्मरसखं रसखण्डनवर्जिनम् ॥३६॥
संजी०-ललितेति । अङ्गना ललितविभ्रमबन्धविचक्षणं मधुरविलासघटनापटुतरम् । सुरभिरणा मनोहरेण गन्धेन पराजितकेसरं निर्जितबकुलपुष्पम् । 'अथ केसरे। बकुलः' इत्यमरः । स्मरस्य सखायं स्मरसखम् । स्मरोद्दीपकमित्यर्थः । मधु मद्यम् । 'अर्धर्चाः पुंसि च' (पा. २।४।३१ ) इति पुंलिङ्गता। उक्तं