________________
२०२
रघुवंशमहाकाव्ये अन्वयः-सुरभिगन्धिषु कुसुमितासु वनराजिषु अन्यभृताभिः प्रथ नम उदीरिताः अत एव मिताः गिरः प्रविरलाः मुग्धवधूकथाः इव शुश्रुविरे ।
व्याख्या-सुष्ट रभन्ते यत्र स सुरभिः-सुगन्धिः गन्धः आमोदः यासां ताः तासु सुरभिगन्धिषु कुसुमानि संजातानि यासां ताः तासु कुसुमितासु-पुष्पितासु वनानाम् अरण्यानां राजयः-पंक्तयस्तासु वनराजिषु, अन्यैः काकैः भृताः-पोषिताः इति अन्यभृतास्ताभिः अन्यभृताभिः कोकिलाभिरित्यर्थः प्रथमम्=पादौ प्रारम्भे, इत्यर्थः उदीरिताः-उक्ताः अतः एव मिताः परिमिताः स्वल्पा इत्यर्थः गिरः= वाण्यः पालापाः इत्यर्थः, प्रकृष्टं वि रान्तीति प्रविरलाः-स्वल्पाः मुग्धाश्च ताः वध्वः, मुग्धवध्वस्तासां मुग्धवधूनां-मुग्धनायिकानां नवविवाहितसुन्दरीणामित्यर्थः कथाः = वाचः इति मुग्धवधूकथाः इव यथा शुश्रुविरे-श्रुताः जनैरिति शेषः ।
समासः-सुरभिः गन्धः यासां ताः, तासु सुरभिगन्धिषु । कुसुमानि संजा. तानि यासु तासु कुसुमितासु। वनानां राजयस्तासु वनराजिषु । अन्यैः भृताः ताभिः अन्यभृताभिः । मुग्धाश्च ताः वध्वस्तासां कथाः मुग्धवधूकथाः।।
हिन्दी-मनोहर गन्धवाली एवं पुष्पों से लदी हुई वनों की पंक्तियों में ( बैठकर कुहकने वाली ) कोकिलों से प्रारम्भ में उच्चारण की गई परिमित ( थोड़ी सी ) वाणी ऐसी सुनाई पड़ने लगी मानों नवविवाहित मुग्धा नायिकाओं का आलाप हो। शुरू में कोयल भी कम बोलती है और नववधू भी रतिकाल में पहले कम बोलती हैं ॥३४॥
श्रुतिसु वभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः । उपवनान्तलताः पवनाहतैः किसलयैः सलयरिव पाणिभिः ॥३५॥
संजी०-कुसुमान्येव कोमला दन्तरुचो दन्तकान्तयो यासां ताः। अनेन सस्मितत्वं विवक्षितम् । उपवनान्तलताः पवनेनाहतैः कम्पितैः किसलयः सलयैः साभिनयः। 'लय'शब्देन लयानुगतोऽभिनयो लक्ष्यते। उपवनान्ते पवनाहतैरिति सक्रियत्वाभिधानात् । पाणिभिरिव बभुः । अनेन लतानां नर्तकीसाम्यं गम्यते ॥३५॥
अन्वयः-श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचः उपवनान्तलताः पवनाहतैः किसलयैः सलयैः पाणिभिः इव बभुः ।