________________
नवमः सर्गः
२७७
कृशता को प्राप्त हो जाती है । अर्थात् वसन्त के आगमन से रात छोटी उसी प्रकार होने लगी, जैसे कि खण्डिता नायिका प्रियसमागम न होने से सूख जाती है ॥३८॥
अपतुषारतया विशदप्रभैः सुरतमङ्गपरिश्रमनादिभिः । कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोजितकेतनम ।।३६॥
संजी०-अपेति । हिमकरश्चन्द्रः । अपतुषारतयाऽपगतनीहारतया विशदप्रभैर्निर्मलकान्तिभिः सुरतसङ्गपरिश्रमनोदिभिः सुरतसङ्गखेदहारिभिरंशुभिः किरणः । मकरोर्जितकेतनम् । मकरेणोर्जितं केतनं ध्वजो यस्य तम् । लब्धाव. काशत्वादुच्छ्रितध्वजमित्यर्थः । कुसुमचापं काममतेजयदशातयत् । 'तिज निशाने' इति धातोर्ण्यन्ताल्लङ । सहकारिलाभात्कामोऽपि तीक्ष्णोऽभूदित्यर्थः ॥३९॥
न्वय:-हिमकरः अपतुषारतया विशदप्रभैः सुरतसंगपरिश्रमनोदिभिः अंशुभिः मकरोर्जितकेतनं कुसुमचापम् अतेजयत् । __व्याख्या-हन्तीति हिमम्, हिनोति = वर्धते इति वा हिमम् । हिमाः शीतलाः कराः=किरणाः यस्य स हिमकरः चन्द्रः, तोषयतीति तुषारः । अपगतः तुषारोऽपतुषारस्तस्य भावस्तत्ता तया अपतुषारतया-अपगतहिमतया प्रकर्षण भातीति प्रभा विशदा=निर्मला धवला प्रभा-कान्तिः येषां ते तैः विशदप्रभैः सु= सम्यग सुष्ठु वा रमणं सुरतं सुरते-संभोगे यः संगः-संमेलनमिति सुरतसंगस्तस्मिन् परिश्रमः खेदस्तं नोदितुं = हतुं शीलं येषां ते तैः सुरतसंगपरिश्रमनोदिभिः अंशुभिः= किरणैः, कृणातीति करः मनुष्याणां करः-हिंसकः इति मकरः । मंकते इति मकः । मकं रातीति वा मकरः । मकरेण= मीनेन अर्जितम्- उच्छितं केतनं ध्वजं यस्य स तं मकरोर्जितकेतनम् चपस्य = वंशविशेषस्य विकारश्चापः । कुसुमानि-पुष्पाणि चापः धनुः यस्य स तं कुसुमचापं मन्मथम् अतेजयत् अशातयत् । वसन्तेन सहकारिणा कामोऽपि तीक्ष्णः प्रबलो जातः इत्यर्थः ।
समास:--हिमाः कराः यस्य स हिमकरः । विशदा प्रभा येषां ते तैः विशदप्रभः। सुरते संगः सुरतसंगः, सुरतसंगे परिश्रमः इति सुरतसंगपरिश्रमस्तस्य नोदिनस्तैः सुरतसंगपरिश्रमनोदिभिः । मकरेण ऊर्जितं केतनं यस्य स तं मकरोर्जितकेतनम् । कुसुमानि चापः यस्य स तं कुसुमचापम् ।
हिन्दी-शीतल किरण वाले चन्द्रमा ने पाला के हट जाने से निर्मल कान्ति