________________
नवमः सर्गः व्याख्या-शशन्ति धावन्ति पथिकाः यस्मिन् शिशिरः-माघफाल्गुनमासीयः ऋतुः । शिशिरस्य अपगमः विनाशः इति शिशिरापगमस्तस्मिन् श्रीः शोभा तपा शिशिरापगमश्रिया वसन्तलक्ष्म्या किंचित् शुकः इव इति किंशुकस्तस्मिन् किंशुके पलाशे उपहितं दत्तं मुञ्चन्तीति मुकुलाः, मुकुलानां=कुडमलानां जालं-समूहः इति मुकुलजालम् । मदेन मद्यपानेनेत्यर्थः यापिता-अपसारिता दूरीकृतेत्यर्थः लजा-ह्रीः यस्याः सा तया मदयापितलजया प्रकृष्टः मदः हर्षः अस्याः अस्तीति प्रमदा. तया प्रमदया-कान्तया प्रणयोऽस्यास्तीति प्रणयी तस्मिन् प्रणयिनि-प्रियतमे उपहितं नखानां कररुहोणां क्षतानि-व्रणानि एव मण्डनं भूषणमिति नखक्षतमण्डनम् इव-यथा प्रशोभत अराजत।
समासः-शिशिरस्य अपगमः शिशिरापगमस्तस्मिन् या श्रीः, शिशिरापगमश्रीः, तया शिशिरापगमश्रिया । मुकुलानां जालमिति मुकुलजालम् । नखानां क्षतानि एव मण्डनमिति नखक्षतमण्डनम् । मदेन यापिता लजा यया तया मदयापितलजया।
हिन्दी-शिशिर ऋतु के बीत जानेपर वसन्त की लक्ष्मी से पलाश में रखा हुआ कलियों का समूह ऐसा सुशोभित हुआ जैसे कि मद्य पीने से लजा को त्याग करने वाली कामिनी से अपने प्रियतम में दिया हुआ नखक्षतरूपी भूषण हो । अर्थात् वसन्त के आनेपर पलाश में कलियाँ खूब आ गई और वे कलियां कामिनी के नखक्षत सी (प्रिय के शरीर पर ) लग रही थीं ॥३१॥
व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् । न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ॥३२॥
संजी०-व्रणेति। व्रणर्दन्तक्षतैर्गुरुभिर्दुर्धरैः प्रमदानामधरैरधरोष्ठेदुःसहं हिमस्य व्यथाकरत्वादसह्यम् । जघनेषु निर्विषयीकृता निरवकाशीकृता मेखला येन तत् । शैत्यात्याजितमेखलमित्यर्थः । एवंभूतं हिमं रविस्तावदा वसन्तादशेषं निःशेषं यथा तथाऽपोहितुं निरसितुं नालं खलु न शक्तो हि । किंतु विरलं कृतवांस्तनूचकार ॥३२॥
अन्वयः-व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलं हिमं रविः तावत् अशेषं यथा स्यात्तथा अपोहितुं नालं खलु किन्तु विरलं कृतवान् ।