________________
२६८
रघुवंशमहाकाव्ये
व्याख्या-वदन्ति अनेनेति वदनम् । सुष्ठ वदनमस्याः सा सुवदना=सुमुखी तस्याः बदनं-मुखमिति सुवदनावदनम् । आसूयते इति पासवः मद्यम् । सुवदना. वदनस्य आसवः तेन संभृतः जनितः इति सुवदनावदनासवसंभृतः। तम् = आसवम् अनुवदति तच्छीलः तदनुवादी । तदनुवादी-आसवसदृशः गुणः-सौरभादिः, इति तदनुवादिगुणः कुसुमानां = पुष्पाणाम् उद्गमः = आविर्भावः, इति कुसुमोद्गमः । गर्हितं लुभ्यन्तीति लोलुपाः मधुषु-पासवेषु लोलुपाः लुब्धास्तैः मधुलोलुपैः प्रायता-दीर्घा पंक्तिः-श्रेणी येषां ते प्रायतपंक्तयस्तैः आयतपंक्तिभिः मधु कुर्वन्ति तच्छोलाः मधुकरास्तैः मधुकरैः मधुपैः करणः । बकुलम्= केसरवृक्षम् आकोलतीति आकुलम् व्यस्तम् अकरोत्=कृतवान् । ___ ममासः-सुवदनायाः वदनं, सुवदनावदनं तस्य आसवः इति सुवदनावदनासवस्तेन संभृतः इति सुवदनावदनासवसंभृतः। तस्य अनुवादी तदनुवादी, तदनुवादी गुणो यस्य स तदनुवादिगुणः । कुसुमानाम् उद्गमः । आयता पंक्तियेषां ते तैः प्रायतपंक्तिभिः । मधुषु लोलुपास्तैः मधुलोलुपैः ।
हिन्दी- स्त्रियाँ मुख में मधु लेकर मौलसरी के वृक्षपर कुल्ला कर देती हैं तब उसमें फूल आते हैं । प्रसिद्ध 'दोहद' यह कवियों का समय है । सुन्दर मुखवाली स्त्रियों के मुख की शराब से उत्पन्न हुए तथा उसी के समान गुण ( गन्ध ) वाले मौलसरी के पुष्पगुच्छों ने मधु के लोभी, लम्बी पंक्तिवाले भौंरों से मौलसरी के वृक्ष को व्याकुल कर दिया । अर्थात् चारों तरफ से व्याप्त करा दिया ॥३०॥
उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके । प्रणयिनीव नखक्षतमण्डनं प्रमदया सदयापितलज्जया ॥३१॥
संजी-उपहितमिति । शिशिरापगमश्रिया वसन्तलक्ष्म्या किंशु के पलाशवृक्षे । 'पलाशः किंशुकः पर्णः' इत्यमरः । उपहितं दत्तं मुकुलजालं कुडमलसंहतिः । मदेन यापितलजयाऽपसारितत्रपया प्रमदया प्रा यिनि प्रियतम उपहितं नखक्षत मेव मण्डनं तदिव । अशोभत ।।३१।।
अन्वयः ----शिशिरापगमश्रिया किंशुके उपहितं मुकुलजालम् मदयापितलज्जया प्रमदया प्रणयिनि उपहितं नखक्षतम् इव अशोभत ।