________________
नवमः सर्गः
२६७
अन्वयः-मधुना विरचिताः उपवनश्रियाम् अभिनवाः पत्रविशेषकाः इव "स्थिताः" मधुदानविशारदाः कुरबकाः मधुलिहां रवकारणतां ययुः ।
व्याख्या-मधुना वसन्तेन विरचिताः कृताः उपगतानि वनानि उपवनानि । उपवनानाम्=पारामाणां श्रियः शोभाः इति उपवनश्रियः तासाम् उपवनश्रियाम् अभिनवाः नूतनाः विशेषाः एव विशेषकाः पत्राणां लिखितपत्राकृतीनां विशेषकाः ललाटकृततिलकाः, इति पत्रविशेषकाः पत्ररचनाः इत्यर्थः इव-यथा स्थिताः मधूनां पुष्परसानां दाने त्यागे विशारदाः कुशलाः इति मधुदानविशारदाः मकरन्ददाने निपुणाः इत्यर्थः । कु ईषत् रौतीति कुरवकः । बहुवचने कुरबकाः= तरवः मधु लिहन्ति, मधुलिहस्तेषां मधुलिहां = भ्रमराणां रवणं रवः। रवस्य= शब्दस्य कारणं हेतुः तस्य भावस्तत्ता तां रवकारणतां ययुः-प्रापुः । दातारं यथा याचकाः स्तुवन्ति, एवं भ्रमराः कुरबककुसुमानां मधूनि पीत्वा जगुरिति भावः ।
समासः-उपवनानां श्रियस्तासाम् उपवनश्रियाम् । विशेषाः एव विशेषकाः पत्राणां विशेषकाः पत्रविशेषकाः। मधूनां दानं, मधुदानं मधुदाने विशारदा इति मधुदानविशारदाः । रवस्य कारणता रवकारणता तां रवकारणताम् । ___हिन्दी-वसन्त ऋतु से बनाई गई, वनलक्ष्मी की नई पत्ररचना ( बेलबूटे बनाकर शरीर का श्रृंगार कर सजाना ) की तरह खड़े हुवे तथा मधु देने में चतुर ( पुष्परस की वर्षा करनेवाले ) कुरबक के वृक्ष भौंरों के शब्द करने में कारण बन गये । अर्थात् वसन्त में कुरबक का मधु पीकर भौंरे वैसे ही गुनगुना रहे थे जैसे दानी से दान पाकर याचक उसका गुणगान करते हैं ॥२९॥
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः । मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ।।३।।
संजी०-सुवदनेति । सुवदनावदनासवेन कान्तामुखमद्येन संभृतो जनितः । तत्तस्य दोहदमिति प्रसिद्धिः । तस्यासवस्यानुवादी सदृशो गुणो यस्य तदनुवादिगुणः कुसुमोद्गमः कर्ता मधुलोलुपैरायतपङ्क्तिभिदीर्घपङ्क्तिभिर्मधुकरै मधुपैः करणः बकुलं बकुलवृक्षमाकुलमकरोत् ॥३०॥
अन्वयः-सुवदनावदनासवसंभृतः तदनुवादिगुणः कुसुमोद्गमः मधुलोलुपैः प्रायतपंक्तिभिः मधुकरैः बकुलम् आकुलम् अकरोत् ।