________________
२६६
रघुवंशमहाकाव्ये किंतु विलासिनां मदयिता मदजनको दयिताश्रवणार्पितः किसलयप्रसवोऽपि पल्लवसंतानोऽपि स्मरदीपनोऽभवत् ॥२८॥
अन्वयः-प्रातवं नवम् अशोकतरोः केवलं कुसुमम् एव स्मरदीपनं न किन्तु विलासिनां मदयिता दयिताश्रवणापितः किसलयप्रसवः अपि स्मरदीपनः अभवत् ।
व्याख्या-च्छति इति ऋतुः । ऋतुः प्राप्तः अस्य तत् आर्तवम् = ऋतुभवं नवं-प्रत्यग्रं नूतनमिति यावत् न शोकोऽस्मादिति अशोकः= वजुलः, तरन्ति अनेनेति तरुः वृक्षः । अशोकस्य तरुस्तस्य अशोकतरोः केवलम् एकम् कुसुमं पुष्पम् एव-निश्चयेन, स्मरति-उत्कण्ठयतीति स्मरः । स्मरस्य= कामस्य दीपनंवर्धनम् उद्दीपनं न किन्तु विलसनं विलासः शृंगारचेष्टा । विलासोऽस्ति येषां ते विलासिनस्तेषां विलासिना=विलसनशीलानां मदयिता-मदजनकः कामविकारकारकः दयितायाः प्रियायाः श्रवणयोः कर्णयोः अर्पितः-दत्तः भूषणत्वेन स्थापितः इत्यर्थः । किंचित् लसन्तीति किसलयानि । किसलयानांपल्लवानां प्रसवः प्रसूति:सन्तानः अपिः समुच्चये स्मरदीपनः अभवत्-जातः ।
समासः-अशोकस्य तरुः अशोकतरुस्तस्य अशोकतरोः । स्मरस्य दीपनं स्मरदीपनम् । किसलयानां प्रसवः किसलयप्रसवः। दयितायाः श्रवणयोः अर्पितः दयिताश्रवणार्पितः ।
हिन्दी–वसन्त ऋतु में खिले नए, अशोकवृक्ष के फूल ही कामोद्दीपक नहीं थे, किन्तु प्रियाओं के कानों में पहने हुवे कोमल कोपलों के गुच्छे भी विलासिओं के काम को उद्दीप्त करनेवाले थे ॥२८॥
विचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः । मधुलिहां मधुटानविशारदाः कुरबका रवकारणतां ययुः ॥२६॥
सञ्जी०-विरचिता इति । मधुना वसन्तेन विरचिता उपवनश्रियामभिनवाः पत्रविशेषकाः पत्ररचना इव स्थिता मधूनां मकरन्दानां दाने विशारदाश्चतुराः कुरबकास्तरवो मधुलिहां मधुपानां रवकारणतां ययुः । भृङ्गाः कुरबकाणां मधूनि पीत्वा जगुरित्यर्थः । दानशौण्डानर्थिजनाः स्तुवन्तीति भावः ॥२९॥