________________
रघुवंशमहाकाव्ये व्याख्या-प्रमदः हर्षोऽस्याः अस्तीति प्रमदा। ध्रियते इति अधरः । प्रमदानां-कामिनीनाम् अधराः दन्तच्छदाः इति प्रमदाधराः । व्रणैः दन्तक्षतः गुरवः= दुर्धराश्च ते प्रमदाधरास्तैः व्रणगुरुप्रमदावरैः दुःसहं सोढुमशक्यम् इति व्रणगुरुप्रमदाधरदुःसहम् । हिमस्य व्रणे पीडाकरत्वादसह्यम् इत्यर्थः, हन्यते इति जघनम् मेखला। विषयात् निर्गता निर्विषया न निर्विषया अनिर्विषया, अनिविषया निर्विषया संपद्यमाना इति निर्विषयीकृता । जघनेषु-स्त्रीकटयग्रभागेषु निर्विषयीकृता- निरवकाशीकृता मेखला-काञ्ची येन तत् जघननिर्विषयीकृतमेखलम् । अतीव शैत्यात मेखला त्यक्ता स्त्रीभिरित्यर्थः । हिमम्-तुहिनं तुषारमित्यर्थः रूयते-स्तूयते रविः-सूर्यः तावत्-आवसन्तात् अशेष-संपूर्ण यथा स्यात्तथा अपोहितं दूरीकर्तुं नालं खलु न समर्थः हि, किन्तु विरलम् अल्पं कृतवान्चकार ।
समास:-प्रमदानाम् अधराः प्रमदाधराः, व्रणे गुरवः व्रणगुरवः, वणगुरवश्च ते प्रमदाधराः, व्रणगुरुप्रमदाधरास्तैः दुःसहमिति वणगुरुप्रमदाधरदुःसहम् तत् । जघनेषु निर्विषयीकृता मेखला येन तत् जघननिर्विषयीकृतमेखलम् तत् । न शेषमिति अशेषम् तत् ।।
हिन्दी-पतियों के दन्तक्षतों से घायल हुए स्त्रियों के अधरों से सहन न होने वाले, ( ठण्डक से घाव में पीड़ा होती है ) तथा जाँघों से तगड़ी को हटा देने वाले ( शीतलता के कारण) हिम ( ठण्ड ) को सूर्य भगवान् वसन्त के आनेतक बिलकुल तो दूर न कर सका, किन्तु कम जरूर कर दिया ॥३२॥
अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा । अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥३॥
मंजी०-अभिनयानिति । अत्र चूतलताया नर्तकीसमाधिरभिधीयते । अभिनयानर्थव्यञ्जकान्व्यापारान् । 'व्यञ्जकाभिनयौ समौ' इत्यमरः । परिचेतुमभ्यसितुमुद्यतेव स्थिता । कुतः? मलयमारुतेन कम्पितपल्लवा । 'पल्लव'शब्देन हस्तो गम्यते । सकलिका सकोरका । 'कलिका कोरकः पुमान्' इत्यमरः । सहकारलता। कलि: कलहो द्वेष उच्यते । 'कलिः स्यात्कलहे शूरे कलिरन्त्ययुगे युधि' इति विश्वः । कामो रागः । तजितामपि । जितरागद्वेषाणामपीत्यर्थः । मनोऽमदयत् ॥३३॥