________________
२५६
रघुवंशमहाकाव्ये
'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । इन्द्रेऽपि योज्यमेतत् । असौ दशरथस्तिसृभिः । प्रियतमाभिः सह । प्रजा विनिनीषुर्विनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रभुमन्त्रोत्साहशक्तिभिरेव सह भुवमुपगतो हरिहय इन्द्र इव । बभौ ॥१८॥
अन्वयः-अरिहयोगविचक्षणः असौ तिमृभिः प्रियतमाभिः सह प्रजाः विनिनीषुः तिसृभिः शक्तिभिः सह भुवम् उपगतः हरिहयः इव बभौ ।
व्याख्या-अरीन्-शत्रून् नन्ति-नाशयन्ति ते अरिहणः । अरिहणः= शत्रुध्नाः ये योगाः=उपायास्तेषु विचक्षणः-कुशलः चतुर इत्यर्थः इति अरिहयोगविचक्षणः असौ-दशरथः तिसृभिः त्रिसंख्यकाभिः अतिशयेन प्रियाः इति प्रियतमास्ताभिः प्रियतमाभिः कौशल्याकैकेयीसुमित्रामिः सह-साकम् प्रजाः लोकान् विशेषेण नेतुमिच्छतीति विनिनीषति । विनिनीषतीति विनिनीषुः शासितुमिच्छुः तिसृभिः शक्तिभिः शक्यते जेतुं याभिस्ताः शक्तयः ताभिः प्रभुमंत्रोत्साहात्मकाभिः एव सह भुवं-पृथिवीम् उपगतः प्राप्तः हरिः-पीतवर्णः हयः-अश्वो यस्य स हरिहयः = इन्द्रः इव-यथा बभौ-शुशुभे । हरिः कथितः शालिहोत्रे, 'त्वक्केशवालरोमाणि सुवर्णभानि यस्य तु । हरिः सवर्णतोऽश्वस्तु पीतकौशेयप्रभः ।' इत्येवंरूपोऽश्वः इन्द्रस्य भवतीतिभावः । __समासः-अरिहणश्च ते योगाः अरिहयोगास्तेषु विचक्षणः इति अरिहयोगविचक्षणः । हरिः हयः यस्य स हरिहयः ।
हिन्दी-शत्रुओं का नाश करनेवाले उपायों में चतुर वह दशरथ अपनी तीनों प्रियररानियों के साथ ऐसे लग रहे थे। मानों प्रजा का शासन करने की इच्छा से तीनों शक्तियों ( प्रभुशक्ति मंत्रशक्ति तथा उत्साहशक्ति ) के साथ पृथिवी में आये हुवे इन्द्र हों ॥१८॥
स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः। स्वभुजवीर्यमगाप यदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ॥१९॥
संजी०–स इति । महारथः स दशरथः संयुगमूर्ध्नि रणाङ्गणे मघवत इन्द्रस्य सहायतां प्रतिपद्य प्राप्य शरैरवधूतभया निवर्तितत्रासाः सुरवधूरुच्छ्रितं स्वभुजवीर्यमगापयत्किल खलु । गायतेः शब्दकर्मत्वात् ‘गतिबुद्धि-' ( पा. १।४।५२ ) इत्यादिना सुरवधूनामपि कर्मत्वम् ।।१९।।