________________
नवमः सर्गः
२५७ अन्वयः-महारथः सः संयुगमूर्ध्नि मघवतः सहायतां प्रतिपद्य शरैः अवधूतभयाः सुरवधूः उच्छ्रितं स्वभुजवीर्यम् अगापयत् ।
व्याख्या-रमन्ते लोकाः यस्मिन् स रथः महान् रथो यस्येति महारथः अयुतधन्विभिः सहास्त्रशस्त्रनिपुणयोद्धा तदुक्तं । महाभारते-"एको दशसहस्राणि योधयेत् यस्तु धन्विनाम् । अस्त्रशस्त्रप्रवीणश्च महारथ इति स्मृतः” इति । सः दशरथः । संयुगस्य-रणस्य मूर्धा अङ्गणं तस्मिन् संयुगमूर्ध्नि मघवतः इन्द्रस्य सहायानां समूहः सहायता तां सहायतां सहायकत्वं प्रतिपद्य-प्राप्य, शरैः- बाणैः अवधूतं निवर्तितं दूरीकृतमित्यर्थः, भयं भीतिः यासां ताः अवधूतभयाः, ताः तथोक्ताः । सुराणां देवानां वध्वः स्त्रियस्ताः सुरवधूः उच्छ्रितम्-उन्नतं स्वस्य भुजौ स्वभुजौ स्वभुजयोः= निजबाह्वोः वीर्य-पराक्रमः तत् स्वभुजवीर्यम् अगापयत्-अकीर्तयत् गानं कारितवानित्यर्थः । किल-खलु इति प्रसिद्धौ ।
समासः-महान् रथो यस्य स महारथः । संयुगस्य मूर्धा तस्मिन् संयुगमूर्ध्नि । अवधूतं भयं यासां ताः अवधूतभयास्ताः तथोक्ताः । सुराणां वध्वस्ताः सुरवधूः । स्वस्य भुजौ स्वभुजौ तयोः वीर्य तत् स्वभुजवीर्यम् ।
हिन्दी-महारथी दशरथ ने युद्धस्थल में इन्द्र की सहायता करके अपने बाणों से ( इन्द्र के शत्रु को मारकर ) जिनके भय को दूर कर दिया ऐसी देवताओं की स्त्रियों से अपनी भुजाओं के उस पराक्रम का गान करा दिया था, जो पराक्रम उन्नत था अर्थात् सर्वत्र फैला था ॥१९।।
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः । कनकयूपसमुच्छ्रयशोभिनो वितम सा तम सासरयूतटाः । २०।।
संजी०-क्रतुष्विति । क्रतुष्वश्वमेधेषु विसर्जितमौलिनाऽवरोपितकिरीटेन । 'यावद्यज्ञमध्वर्युरेव राजा भवति' इति राज्ञश्चिह्नत्यागविधानादित्यभिप्रायः । 'मौलिः किरीटे धम्मिल्ले' इति विश्वः । भुजसमाहृतदिग्वसुना भुजार्जितदिगन्तसंपदा । अनेन क्षत्रियस्य विजितत्वमुक्तम् । नियमार्जितधनत्वं सद्विनियोगकारित्वं च सूच्यते । वितमसा तमोगुणरहितेन तेन दशरथेन । तमसा च सरयुश्च नद्यौ । तयोस्तटाः कनकयूपानां समुच्छ्रयेण समुन्नमनेन शोभिनः कृताः। कनकमयत्वं च यूपानां शोभायं विध्यभावात् । 'हेमयूपस्तु शोभिकः' इति यादवः ॥२०॥