________________
नवमः सर्गः
२५५
शिखरिणां क्ष्माभृतां दुहितरः । पा समन्तादपगच्छन्तीति अथवा-'पापेनाप्संवन्धिना वेगेन गच्छन्तीत्यापगाः' इति क्षीरस्वामी। नद्यः सागरमिव । पति भर्तार• मलभन्त प्रापुः ॥१७॥
न्वयः-पतिदेवता: मगधकोसलकेकयशासिनां दुहितरः अहितरोपित. मागंणम् तं शिखरिणां दुहितरः श्रापगाः सागरम् इव पतिम् अलभन्त ।
व्याख्या-पतिः = भर्ता एव देवता ईश्वरः यासां ताः पतिदेवताः पतिव्रताः मगधाश्च कोसलाच केकयाश्चेति मगधकोसलकेकयाः । मगधकोसलकेकयान् एतन्नामकान् जनपदान् शासति = पालयन्तीति मगधकोसलकेकयशासिनस्तेषां मगधकोसलकेकयशासिना-तत्तजनपदराजानां दुहितरः = सुताः कौसल्या, सुमित्रा, केकयी इत्यर्थः, मार्गयति, मार्गणः। अहिते-शत्रौ रोपितः-निखातः मार्गणः बाणः येन स तम् अहितरोपितमार्गणम् तं दशरथम् शिखराणि सन्ति येषान्ते शिखरिणस्तेषां शिखरिणां = पर्वतानां दुहितरः = पुत्र्यः समन्तात् अपगच्छन्ति, आपेन = जलसंबन्धिवेगेन वा गच्छन्तीति आपगा:- नद्यः सागरं-समुद्रमिव यथा पति-स्वामिनम् अलभन्त-प्रापुः ।
समासः-पतिरेव देवता यासां ताः पतिदेवताः । मगधश्च कोसलश्च केकयश्चेति मगधकोसलकेकयास्तान् शासति ते मगधकोसलकेकयशासिनस्तेषां मगवकोसलकेकयशासिनाम् । अहिते रोपितः मार्गणः येन स तम् अहितरोपितमार्गणम् ।
हिन्दी-पति को ही देवता माननेवाली "पतिव्रता" मगध तथा कोसल और केकय देश के राजाओं की सुमित्रा, कौसल्या, केकयी नाम की कन्याओं ने, शत्रुओं के ऊपर बाण बर्साने वाले दशरथ को उसी प्रकार पति रूप में प्राप्त किया जैसे कि पर्वतों से निकलने वाली नदियाँ समुद्र को प्राप्त करती हैं ॥१७॥
प्रियतमाभिरसौ तिमृभिर्बभौ तिमृभिरेव भुवं सह शक्तिभिः । उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ॥१८॥
संजी०-प्रियतमाभिरिति । अरीन्नन्तीत्यरिहणो रिपुघ्नाः । हन्तेः क्विप् । 'बमभ्रूणवृत्रेषु विप' इति नियमत्य प्रायिकत्वात् । यथाह न्यासकारः-'प्रायि. कवायं नियमः क्वचिदन्यस्मिन्नप्युपपदे दृश्यते मधुहा । प्रायिकत्वं च वक्ष्यमारणस्य बहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते' इति । तेषु योगेषूपायेषु विचक्षणो दक्षः ।