SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ २५४ रघुवंशमहाकाव्ये नृपतिमसेवत ? कमपि नासेवतेत्यर्थः । विष्णाविव विष्णुतुल्ये तस्मिन्नपि श्रीः स्थिराभूदित्यर्थः ॥१६॥ अन्वय:-पतिव्रता सकमला देवता अर्थिषु अलाघवं ककुत्स्थकुलोद्भवं तम्, आत्मभवं पुरुषं च अपहाय अन्यं के नृपतिं असेवत ! व्याख्या-पातीति पतिः । पत्यौ = स्वामिनि व्रतं नियमो यस्याः सा पतिव्रता, कमलेन-पद्मन सहिता सकमला-पद्महस्ता देवता लक्ष्मीः अर्थः असंनिहितः येषां ते अर्थिनः-याचकास्तेषु अर्थिषु-याचकेषु विषये लघोर्भावः लाघवं न विद्यते लाघवं यस्य तमलाघवम्, याचकविषये उदारमित्यर्थः । ककुदि= वृषांसे तिष्ठतीति ककुत्स्थः । ककुत्स्थस्यए तन्नामकराजस्य कुलं-वंशस्तस्मिन् भवतीति ककुत्स्थकुलोद्भवस्तं ककुत्स्थकुलोद्भव तं-दशरथम् आत्मनः भवतीति आत्मभवस्तम् आत्मभवम् । आत्मना वा भवतीति आत्भवस्तमात्मभवम् । पुरुषं = विष्णु च अपहाय-परित्यज्य अन्यम् अपरं कम्=नृपति नराधिपम् असेवत अभजत सेवितवतीत्यर्थः । न कमपि असेवतेत्यर्थः । समासः-पत्यौ व्रतं यस्याः सा पतिव्रता । ककुत्स्थस्य कुलमिति ककुत्स्थकुलं तत्र भवः, इति ककुत्स्थकुलोद्भवस्तं ककुत्स्थकुलोद्भवम् । कमलैः सहिता सकमला। पात्मना भवतीति आत्मभवस्तमात्मभवम् । हिन्दी-कमल हाथ में लिये पतिव्रता लक्ष्मी ने याचकों के लिये उदार एवं ककुत्स्थ के कुल में पैदा होने वाले महाराज दशरथ तथा आत्मयोनि भगवान् विष्णु को छोड़कर "भला" किस दूसरे राजा की सेवा की है ? अर्थात् किसी की भी नहीं । विष्णु की तरह विष्णु के समान दशरथ के पास भी लक्ष्मी स्थिर होकर रही थी ॥१६।। तमलभन्त पति पतिदेवताः शिखरिणामिव सागरमापगाः । मगधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम् ।।१७।। संजी०-तनिति । पतिरेव देवता यासां ताः पतिदेवताः पतिव्रताः । मगधाश्च कोसलाच केकयाश्च ताञ्जनपदाञ्छासतीति तच्छासिनः । तेषां राज्ञां दुहितरः पुत्र्यः । सुमित्रा-कौसल्या-कैकेय्य इत्यर्थः । अत्र क्रमो न विवक्षितः । अहितरोपितमार्गणं शत्रुनिखातशरम् । 'कदम्बमार्गणशराः' इत्यमरः । तं दशरथं
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy