________________
नवमः सर्गः
२५१
यस्य स तं शतमखम् । नखानां रागः नखरागस्तेन समृद्धिः येषां ते तैः नखरागसमृद्धिभिः । मुकूटेषु रत्नानि मुकुटरत्नानि तेषां मरीचयस्तैः मुकुटमरीचिभिः ।।
हिन्दी-सैकड़ों राजा महापराक्रमी उस दशरथ के, पैर के नखों की लालिमा से समृद्धि ( सौन्दर्य ) को प्राप्त हुई मुकुट में जड़े रत्नों की किरणों से चरणों में उसी प्रकार स्पर्श करते थे, जैसे कि देवता लोग सौ यज्ञ करनेवाले इन्द्र के चरणों में स्पर्श करते अर्थात् प्रणाम करते थे ॥१३॥ निववृते स महार्णवरोधसा मचिवकारितवालसुताञ्जलीन् । समनुकम्प्य सपत्नपग्ग्रिहाननलकानलकानवमां पुरीम ॥१४।।
संजी०-निववृत इति । स दशरथः सचिवैः संप्रयोजितैः कारिता बालसुतानामञ्जलयो यैस्तान् । स्वयमर्समुखागतानित्यर्थः । अनलकान्हतभर्तृकतयालकसंस्कारशून्यान् । सपन्नपरिग्रहाञ्छत्रुपत्नीः । 'पत्नीपरिजनादनमूलशापाः परिग्रहाः' इत्यमरः । समनुकम्प्यानुगृह्य । अलकानवमामलकानगरादन्यनां पुरीमयोध्यां प्रति महार्णवानां रोधसः पर्यन्तानिववृते । शरणागतवत्सल इति भावः ॥१४॥
अन्वयः-सः सचिवकारितबालसुताञ्जलीन् अनलकान् सपनपरिग्रहान् समनुकम्प्य अलकानवमाम् पुरीं "प्रति" महार्णवरोधसः निववृते ।
__ व्याख्या-सः दशरथः बालाश्च ते सुताः बालसुताः । सचिवैः मन्त्रिभिः ( सम्प्रयोजितैः) कारिताः बालसुतानां शिशुपुत्राणाम् अञ्जलयः हस्तसम्पुटाः यस्ते तान् सचिवकारितबालसुताञ्जलीन् न अलकाः केशाः येषां ते तान् अनलकान्-हतभर्तृकत्वेन केशसंस्कारशून्यान्, सपत्नानां-शत्रूणां परिग्रहाः स्त्रियः इति सपत्नपरिग्रहास्तान् सपत्नपरिग्रहान् समनुकम्प्य-अनुगृह्य तदुपरिकृपां कृत्वेत्यर्थः । अवमा अधमा, म अवमा अनवमा । अलकायाः कुबेरनगगत् अनवमा अन्यूना ताम् अलकानवमाम्-अलकानगरीसदृशीमित्यर्थः पुरीम्-अयोध्या प्रति अर्णासि सन्त्यत्र ते अर्णवाः, महान्तश्चे ते अर्णवाः महार्णवाः । महार्णवानां= महासागराणां रोधः = तटम् तस्मात् महार्णवरोधसः निववृते-निवृत्तः । राजा दशरथः शरणागतवत्सल पासीदित्यर्थः ।
समास:-बालाश्च ते सुताः बालसुताः । सचिवः कारिताः बालसुतानाम् अञ्जलयः यैस्ते तान् सचिवकारितबालसुताञ्जलीन् । न सन्ति अलकाः येषां तान्