________________
२५०
रघुवंशमहाकाव्ये स्वनवता शब्दवता धनुषा चापेन द्विषन्तीति द्विषः तेषां द्विषां शत्रणां शमितः= नाशितः पक्षः सहायः बलं-सेना च येन स शमितपक्षबलः ।
समासः-शतं कोटयः यस्य तत् , तेन शतकोटिना। शमितः पक्षाणां बलं येन स शमितपक्षबलः ( इन्द्रः ) । शमितः पक्षः बलं च येन स शमितपक्षबलः ( दशरथः ) । नवं च तत्तामरसं नवतामरसं तद्वत् आननं यस्य स नवतामरसाननः ।
हिन्दी-इन्द्र ने अपने सौ नोकों वाले वज्र से पर्वतों के पंखरूपी बल ( सार ) को “जैसे" नष्ट कर दिया था। "उसी प्रकार" नए कमल के समान सुन्दर मुख वाले दशरथ ने बारणों की वृष्टि को छोड़ने वाले एवं टंकार युक्त धनुष से शत्रुओं के सहायकों व सेना को नष्ट कर दिया ॥१२॥
चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन् । नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम् ॥१३।।
संजी०-चरणयोरिति । शतशो नृपतयोऽखण्डितपौरुषं तं दशरथम् । मरुतो देवाः शतमखं यथा शतक्रतुमिव । नखरागेण चरणनखकान्त्या समृद्धिभिः संपादितर्द्धिभिर्मुकुटरत्नमरीचिभिश्चरणयोरस्पृशन् । तं प्रणेमुरित्यर्थः ।।१३।।
अन्वयः-शतशः नृपतयः अखण्डितपौरुषं तम् , मरुतः शतमखं यथा नखरागसमृद्धिभिः मुकुटरत्नमरीचिभिः चरणयोः अस्पृशन् ।
व्याख्या-शतं शतमिति शतशः अनेके नन् = जनान् पान्ति-रक्षन्तीति नृपतयः राजानः पुरुषस्य भावः कर्म वा पौरुषम् । न खण्डितमिति अखण्डितम् । अखण्डितं-पूर्णमित्यर्थः पौरुषं-पराक्रमो यस्य स तम् अखण्डितपौरुषम् तं-दशरथम् मरुतः देवाः शतं- शतसंख्याकाः मखाः = यागाः यस्य स शतमखस्तं शतमखम् इन्द्रं यथा-इव नखस्य-कररुहस्य रागः कान्तिरिति नखरागस्तेन नखरागेण-चरणनखरागेण सम्यगऋद्धिः सम्पादितवृद्धिः येषां ते तैः नखरागसमृद्धिभिः मुकुटे-किरीटे यानि रत्नानि-हीरकादीनि इति मुकुटरत्नानि । मुकुटरत्नानां मरीचयः किरणाः तैः मुकुटरत्नमरीचिभिः चरणयोः पादयोः अस्पृशन्=चरणस्पर्शमकुर्वन् प्रणेमुरित्यर्थः ।
समासः-अखण्डितं पौरुषं यस्य स तम् अखण्डितपौरुषम् । शतं मखाः