________________
नवमः सर्गः
२४६ .
सम्पद्-श्रीः यस्य स तस्य नरवाहनसम्पदः तस्य दशरथस्य हन्यते वायुना घनः, घनस्य रव इव रवो येषां ते घनरवाः असि सन्ति यत्र ते अर्णवाः समुद्राः विजयस्य-जयस्य दुन्दुभिता=पटहता तां विजयदुन्दुभितां ययुः जग्मुः किल ।
समासः-एकश्चासौ रथः एकरथस्तेन । धनुषः भृत् तस्य धनुर्भूतः । विजयस्य दुन्दुभिः विजयदुन्दुभिः तस्य भावः विजयदुन्दुभिता तां विजयदुन्दुभिताम् । घनस्य रव इव रवो येषां ते घनरवाः। नरः वाहनं यस्य स नरवाहनः, नरवाहनस्य संपद् इव सम्पद् यस्य स तस्य नरावहनसम्पदः ।
हिन्दी-सुरक्षित केवल एक रथ से ( रथमें बैठकर ) पृथिवी को जीतने वाले, कुबेर के समान सम्पत्तिशाली धनुषधारी राजा दशरथ की, मेघ को तरह गर्जने वाला समुद्र विजय की दुन्दुभि बन गया। अर्थात् दशरथ ने समुद्रपर्यन्त पृथिवी को जीत लिया था॥११॥
शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः ।
स शग्वृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥१२॥ __ संजी०-शमितेति । पुरंदर इन्द्रः शतकोटिना शतास्रिणा कुलिशेन वज्रण शिखरिणां पर्वतानां शमितपक्षबलो विनाशितपक्षसारः । नवतामरसाननो नवपङ्कजाननः । 'पङ्करुहं तामरसम्' इत्यमरः । स दशरथः शरवृष्टिमुचा स्वनवता धनुषा द्विपां शमितो नाशितः पक्षः सहायो बलं च येन स तथोक्तः । 'पक्षः सहायेऽपि' इत्यमरः ॥१२॥
अन्वयः-पुरन्दरः शतकोटिना कुलिशेन शिखरिणां शमितपक्षबलः नयतामरसाननः सः शरवृष्टिमुचा स्वनवता धनुषा द्विषां शमितपक्षबलः।
व्याख्या-पुराणि दारयतीति पुरन्दरः-इन्द्रः शतं शतसंख्याकाः कोटयः= अटन्यः=धनुरन्तभागाः यस्य तत् तेन शतकोटिना कुलिनः-पर्वतान् श्यतितनूकरोतीति कुलिशम् कुलिशेन= वज्रेण शिखराणि सन्ति येषु ते शिखरिणस्तेषां शिखरिणां पर्वतानाम् पक्षोः गरुतः बलं-सारः इति पक्षबलम् शमितम् विनाशितम् पक्षबलं येन स शमितपक्षबलः । नवं = नूतनं च तत्तामरसं-पङ्कजमिति नवतामरसं तद्वत् आननं = मुखं यस्य स नवतामरसाननः सः दशरथः शराणां-बाणानां वृष्टिं वर्ष मुश्चतीति शरवृष्टिमुक् तेन शरवृष्टिमुचा स्वनोऽस्यास्तीति स्वनवत् तेन