________________
२४८
रघुवंशमहाकाव्ये व्याख्या-शराः वाणाः अस्यन्ते क्षिप्यन्ते अनेन तत् शरासनम् । अधिगता-आरोपिता ज्या-मौर्वी यस्मिन् तत् अधिज्यम् अधिज्यम्= पारोपितमौर्वीकं शरासनं-धनुः यस्य सः अधिज्यशरासनः सः दशरथः, उदकानि जलानि धीयन्तेऽत्र उदधिः-समुद्रः नेमिः- वेष्टनं यस्याः सा ताम् उदधिनेमिम् मेदिनीम् = पृथिवीम् एकः-अद्वितीयश्चासौ रथः स्यन्दनस्तेन एकरथेन अजयत् = जितवान् स्वयमेकरथेनाजैषीदित्यर्थः । गजाः हस्तिनः सन्ति यस्यां सा गजवतीहस्तिमती जवेन वेगेन तीव्राः वेगातिशयाः हयाः वाजिनः यस्यां सा जवतीवहया चमू: सेना तु अस्य दशरथस्य केबलं-मात्रम् जयं-विजयम् अघोषयत् = अप्रथयत् । स्वयम् एकवीरस्य दशरथस्य सेना केवलं जयघोषकारिणी एवेति ।
समास:-अधिज्यं शरासनं यस्य सः अधिज्यशरासनः। एकश्चासौ रथः एकरथस्तेन एकरथेन । उदधिः नेमिः यस्याः सा ताम् उदधिनेमिम् । जवेन तीव्राः हयाः यस्या सा जवतीवया ।
हिन्दी-धनुष को चढ़ाये हुए उस दशरथ ने समुद्र से घिरी हुई पृथिवी को एक रथ पर चढ़कर स्वयं जीत लिया। हाथी वाली, और तीव्र वेगवाले घोड़ों की सेना तो केवल जयजयकार करती थी ॥१०॥
अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भूतः । विजयदुन्दुभितां ययुरणवा धनरवा नरवाहनसंपदः ॥११॥
संजी०–अवनिमिति । वरूथिना गुप्तिमता। 'वरूथो रथगुप्तिर्या तिरोधत्ते रथस्थितिम्' इति सजनः । एकरथेनाद्वितीयरथेन । अवनि जितवतो धनुर्भूतो नरवाहनसंपदः कुबेरतुल्यश्रीकस्य तस्य दशरथस्य घनरवा मेघसमघोषा अर्णवा विजयदुन्दुभितां किल ययुः । भगवान्तविजयीत्यर्थः ॥११॥
अन्वयः-वरूथिना एकरथेन अवनि जितवतः धनुर्भूतः नरवाहनसम्पदः तस्य धनरवाः अर्णवाः विजयदुन्दुभितां किल ययुः ।
व्याख्या--वियते रथोऽनेनेति वरूथः । वरूथोऽस्ति प्रस्यासौ वरूथी तेन वरूथिना-सुरक्षितेन एकश्चासौ रथः एकरथस्तेन एकरथेन-अद्वितीयस्यन्दनेन अवनिम्-पृथिवीम्, जितवतः विजयिनः धनुः बिभर्ति इति धनुर्भूत् तस्य धनुर्भूतः= चापधारिणः नरः वाहनमस्यासौ नरवाहनः । नरवाहनस्य-कुबेरस्य संपद् इव