________________
नवमः सर्गः
२४७ श्रानशिरे, हि सः निदेशम् अलंघयतां सुहृत् अभूत, प्रतिगर्जताम् अयोहृदयः अभूत् ।।
व्याख्या-वसूनि धारयति इति वसुधा । अधिकं पान्तीति अधिपाः । वसुधायाः पृथिव्याः अधिपाः भूपालाः इति वसुधाधिपाः राजानः उद्वहतीति उद्वहः रघूणाम् रघुकुलानाम् उद्वहः नायकः इति रघूद्वहस्तस्मात् रघूद्वहात्, दशरथादित्यर्थः उदयं वृद्धिम् अस्तमयम्-विनाशञ्चेति उभयं-द्वयम् आनशिरे = लेभिरे। हि-यतः सः दशरथः निदेशं शासनम् न लंघयन्तीति अलंघयन्तस्तेषाम् अलंघयताम्=पालयताम् शोभनं हृदयं यस्य स सुहृत्-मित्रम् अभूत् आसीत् । प्रतिगर्जन्ति प्रतिस्पर्धन्ते प्रतिगर्जन्तस्तेषां प्रतिगर्जताम् प्रतिस्पर्धिनाम् अयः लोहः इव हृदयं-चित्तं यस्य सः अयोहृदयः-कठोर इत्यर्थः अभूत् । स्वशासने स्थितान् स रक्षति आज्ञोल्लंघनकारिणः मारयतीत्यर्थः ।
समामः-वसुधायाः अधिपाः इति वसुधाधिपाः । रघूणाम् उद्वह इति रघुद्वहस्तस्मात् रघुद्वहात् । शोभनं हृदयं यस्य स सुहृत् । अय इव हृदयं यस्य सः अयोहृदयः ।।
हिन्दी-राजाओं ने रघुकुल नायक दशरथ से ऐश्वर्य और विनाश इन दोनों को प्राप्त किया। इसलिये कि वह राजा दशरथ अपनी आज्ञा के मानने वालों का मित्र था, और टक्कर लेने आने वालों के लिए लोहे के समान कठोर हृदय था, अर्थात् आज्ञाकारियों की रक्षा करता और घमण्डियों का विनाश कर देता था ॥९॥
अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः । जयमघोषयदस्य तु कवलं गजवती जवतीव्रहया चमूः ॥१०॥
संजी०-अजयदिति । अधिज्यशरासनः स दशरथ उदधिनेमि समुद्रवेष्टनां मेदिनीमेकरेथेनाजयत् । स्वयमेकरथेनाजैषीदित्यर्थः । गजवती गजयुक्ता। जवेन तीवा जवाधिका हया यस्यां सा चमूस्त्वस्य नृपस्य केवलं जयमघोषयदप्रथयत् । स्वयमेकवीरस्य चमूरुपकरणमात्रमिति भावः ॥१०॥
अन्वयः-अधिज्यशरासनः सः उदधिनेमिम मेदिनीम् एकरथेन अजयत्, गजवती जवतीवहया चमूः तु अस्य केवलं जयम् अघोषयत् ।