________________
२४६
रघुवंशमहाकाव्ये
व्याख्या-तेन-राज्ञा दशरथेन प्रकर्षण भवति इति प्रभवन् तस्मिन् प्रभवति-प्रभौ सति वसवो देवाः, वसूनिः-रत्नानि वा सन्ति अस्यासौ वासवः । तस्मिन् वासवे इन्द्र अपि कृप्यते कृपाविषयीक्रियते सा कृपणाक्षुद्रा-दीनेत्यर्थः वाकः-वाणी नेरिता-न कथिता परिहासस्य क्रीडायाः कथाः-गाथास्तासु परिहासकथासु-परिहासजल्पनेषु अपि वितथा-मिथ्या वाक नेरिता, किंच अपगता रुट क्रोधो यस्य सः अपरुट तेन अपरुषा:-क्रोधरहितेन तेन सपत्नानां जनास्तेषु सपत्नजनेषु शत्रुजनेषु अपि पिपर्ति-पूरयति-अलंबुद्धिकरोतीति परुषम् । परुषाणि कठोराणि अक्षराणि-वर्णाः यस्मिन् कर्मणि तत् परुषाक्षरं यथा स्यासथा वाक्-वचनं नेरिता किमुतान्यत्रेत्यपिशब्दार्थः । अर्थात् दशरथेन सर्वदा अदीना, सत्या, मधुरा एव वाणी कथिता इति भावः ।
समामः-परिहासस्य कथाः परिहासकथास्तासु परिहासकथासु । सपत्नानां जनाः सपत्नजनास्तेषु सपत्नजनेषु । परुषाणि अक्षराणि यस्मिन् कर्मणि तत् परुषाक्षरम् । अपगता रुद यस्य तेन अपरुषा।
हिन्दी-उस राजा दशरथ ने प्रभु इन्द्र के सामने भी दीनतायुक्त वचन नहीं कहा और हसी के प्रसंग में भी झूठ नहीं बोला। तथा क्रोध से शून्य दशरथ ने शत्रुओं से भी कठोर वचन नहीं कहा, तब फिर अन्य के प्रति तो कहना ही क्या ? अर्थात् दशरथ ने सदा अदीन दीनता से रहित सत्य, मधुर वाणी ही कही थी ॥८॥
उदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः। स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ।।६।।
संजी-उदयमिति । वसुधाधिपा राजानः । उद्वहतीत्युद्वहो नायकः । पचाद्यच । रघूणामुरहो रघुनायकः । तस्माद्रघुनायकादुदयं वृद्धिम् । अस्तमयं नाशं च । इत्युभयमानशिरे लेभिरे। कुतः ? हि यस्मात्, स दशरथो निदेशमाज्ञामलङ्घयताम् । शोभनं हृदयमस्येति सुहृन्मित्रमभूत् ‘सुहृद्द हुँदौ मित्रामित्रयोः' (पा. ५।४।१५० ) इति निपातः । प्रतिगर्जतां प्रतिस्पर्धिनाम् । अय इव हृदयं यस्येति अयोहृदयः कठिनचित्तोऽभूत् । प्राज्ञाकारिणो रक्षति, अन्यान्मारयतीत्यर्थः ।।९।।
अन्वयः-वसुधाधिपाः रघूद्वहात् उदयम् अस्तमयं चेति उभयम्