________________
नवमः सर्गः
२५५
च न अपाहरन्, शशिप्रतिमाभरणं मधु च न अपाहरत् नवयौवना प्रियतमा वा न अपाहरत् ।
व्याख्या-उदयाय-उन्नत्य-अभ्युदयार्थमित्यर्थः यततेऽसौ यतमानस्तं यतमानं व्याप्रियमाणं तं-दशरथं मृग्यन्तेऽत्र मृगया मृगयायाम् आखेटे अभिरतिः= व्यसनं न = नहि अपाहरत्-पाचकर्ष । दुष्टमासमन्तात् उदरं यस्य तत् दुरोदरंद्यूतं च नापाहरत् । शशिनः-चन्द्रस्य प्रतिमा-प्रतिबिम्बम् प्राभरणं भूषणं यस्य तत् शशिप्रतिमाभरणम् मधु-मद्यञ्च न अपाहरत् । युनो भावः यौवनम् नवंनूतनं यौवनं तारुण्यं यस्याः सा नवयौवना, अतिशयेन प्रिया इति प्रियतमा भार्या वा नापाहरत् । अभ्युदये संलग्नः सर्वथा जितेन्द्रियः प्रजापालकः स दशरथ पासीदित्यर्थः।
समासः-मृगयायाम् अभिरतिः मृगयाभिरतिः, शशिनः प्रतिमा पाभरणं यस्य तत् शशिप्रतिमाभरणम् । नवं यौवनं यस्याः सा नवयौवना ।
हिन्दी-सर्वप्रकार की उन्नति में लगे हुए राजा दशरथ को शिकार खेलने का व्यसन या जूमा खेलना अथवा चन्द्रमा की परछाईं पड़ी मदिरा और नव यौवना षोडशी स्त्री, न खींच सकी। अर्थात् ये सब राजा को अपनी ओर आकर्षित न कर सके ॥७॥
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि । न च सपन जनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता ॥८॥
मंजी०-नेति । तेन राज्ञा प्रभवति प्रभौ सति वासवेऽपि कृपणा दोना वाङ नेरिता नोक्ता । परिहासकथास्वपि वितथाऽनृता वाङ नेरिता । किंचापरुषा रोषशून्येन तेन सपत्नजनेष्वपि शत्रुजनेष्वपि परुषाक्षरं निष्ठुराक्षरं यथा तथा वाङ नेरिता। किमुतान्यत्रेति सर्वत्र 'अपि'शब्दार्थः । किं त्वदीना सत्या मधुरैव वागुक्तेति फलितार्थः ॥८॥ __ अन्वयः-तेन प्रभवति सति वासवे अपि कृपणा वाक् न ईरिता, परिहासकथासु अपि वितथा वाक् न ईरिता । "किंच" अपरुषा तेन सपत्नजनेषु अपि परुषाक्षरं यथा स्यात्तथा वाक न ईरिता ।