________________
रखुवशमहाकाव्ये
अनलकान् । सपत्नानां परिग्रहाः सपत्नपरिग्रहास्तान् सपत्नपरिग्रहान् । अलकाया न अवमा अलकानवमा ताम् । महान्तश्च ते अर्णवाः महार्णवास्तेषां रोधस्तस्मात् महार्णवरोधसः ।
हिन्दी-वह राजा दशरथ, मंत्रियों के द्वारा छोटे बच्चों से करवाया है प्रणाम जिन्होंने, तथा पतियों के मारे जाने से खुले केश वाली, शत्रुओं की स्त्रियों के ऊपर अनुकम्पा ( दया ) करके अलका ( कुबेर की नगरी ) के समान अयोध्यापुरी को महासमुद्रतट से लौट पड़े, अर्थात् स्वयं सामने न जाकर मंत्रियों के साथ अपने पुत्रों से रानियों ने क्षमा माँगी ॥१४॥
उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः । श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनल सोमसमद्युतिः ॥१५।।
संजी०–उपगत इति । अनुदितमनुच्छ्रितमन्यत्स्वच्छत्रातिरिक्तं सितात. पवारणं श्वेतच्छत्रं यस्य सः । अनलसोमयोरग्निचन्द्रयोः समे द्युती तेजःकान्ती यस्य स तथोक्तः । श्रियं लक्ष्मी रन्ध्रऽन्यायालस्यादिरूपे छले चलां चञ्चलामवेक्ष्यावलोक्य । श्रीहि केनचिन्मिषेण पुमांसं परिहरति । स दशरथो मण्डलस्य नाभितां द्वादशराजमण्डलस्य प्रधानमहीपतित्वमुपगतोऽपि । चक्रवर्ती सन्नपीत्यर्थः । 'अथ नाभिस्तु जन्त्वङ्ग यस्य संज्ञा प्रतारिका। रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः ॥ पाद्यक्षत्रियभेदे तु मतो मुख्यमहीपतौ।' इति केशवः। अनलसोऽप्रमत्तोऽभूत् । 'अजितमस्ति नृपास्पदम्' इति पाठान्तरेऽजितं नपास्पदमस्तीति बुद्धयानलसोप्रमत्तोऽभूत् । विजितनिखिलजेतव्योऽपि पुनर्जेतव्यान्तरवानिव जागरूक एवावातिष्ठतेत्यर्थः । द्वादशराजमण्डलं तु कामन्दकेनोक्तम्-'अरेमित्रमरेर्मित्रं मित्रमित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरःसराः ॥ पाणिग्राहास्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः' । 'अरेश्च विजिगीपोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे । मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः ॥' इति । 'अरिमित्रादयः पञ्च विजिगीषोः पुरःसराः । पाणिग्राहाक्रन्दपाणिग्राहासाराश्च पृष्ठतः ॥' इति पृष्ठतश्चत्वारः। मध्यमोदासीनौ द्वौ विजिगीषुरेक इत्येवं द्वादश राजमण्डलम् । तत्रोदासीनमध्यमोत्तरश्चक्रवर्ती । दशरथश्वेतादृगिति तात्पर्यार्थः ॥१५॥