________________
२४०
रघुवंशमहाकाव्ये अस्य-दशरथस्य गुणाः शौर्यादयः सन्ति अस्य तत् गुणवत् । अतिशयेन गुणवदिति गुणवत्तरम् अभवत्-जातम् । तत्पौरजनपदसमूहो दशरथे राज्ञि अतीवासक्तो जात इत्यर्थः ।
समासः-अात्मनः कुलमिति आत्मकुलं तत्र उचितमिति, आत्मकुलोचितम् । प्रकृतीनां मण्डलमिति प्रकृतिमण्डलम् । नगस्य रन्ध्रकर इति नगरन्ध्रकरः । नगरन्ध्रकरस्य अोज इव प्रोजः यस्य स तस्य नगरन्ध्रकरौजसः । नगरेण सहितं सनगरम् ।
हिन्दी-दशरथ ने अपने पूर्वजों से प्राप्त हुआ और अपने कुलोचित नागरिक जनों के सहित पूरे देश का इतना सुचारु रूप से पालन किया कि कार्तिकेय के समान बल वाले इस दशरथ की गुणवत्ता सबसे अधिक हो गई । अर्थात् सब नागरिक एवं प्रान्त मण्डल की प्रजा, दशरथ में अतीव श्रद्धा भक्ति करने लगी ॥२॥
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् । बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥३।।
सञ्जी०-उभयमिति । मनस ईषिणो मनीषिणो विद्वांसः । पृषोदरादित्वात्साधुः । बलनिषूदनमिन्द्रम् । दण्डस्य धरो राजा मनुरिति यो दण्डधरः स एवान्वयः कूटस्थो यस्य तमर्थपति दशरथं चेत्युभयमेव । समयेऽवसरे जलं धनं च वर्षतीति समयवर्षी । तस्य भावः समयवर्षिता तया हेतूना कृतकमरगां स्वकर्मकारिणाम् । नुदतीति नुत् । 'इगुपधज्ञाप्रीकिरः कः' (पा. ३।१।१३५) इति कप्रत्ययः श्रमस्य नुदं श्रमनुदम् । विवबन्तत्वे नपुंसकलिङ्गेनोभयशब्देन सामानाधिकरण्यं न स्यादिति वदन्ति ॥३॥
अन्वयः-मनीषिणः बलनिषूदनं, मनुदण्डधरान्वयम् अर्थपतिम् इति उभयम् एव समयवर्षितया कृतकर्मणां श्रमनुदं वदन्ति ।
व्याख्या-मनस ईषा मनीषा। मनीषा=बुद्धिरस्ति येषां ते मनीषिणः=विद्वांसः बलस्य असुरस्य निषूदनः-नाशकस्तं बलनिषूदनम् इन्द्रम् । धरतीति धरः । दण्डस्य घरः दण्डधरः राजा । मन्यत इति मनुः । मनुरिति यो दण्डधरः इति मनुदण्डधरः । मनुदण्डधरः एव अन्वयः वंशः ( कूटस्थः-आदिपुरुषः ) यस्य स तं मनुदण्डधरान्वयम्, अर्थ्यते इति अर्थः । अर्थस्य-विषयस्य देशस्येत्यर्थः पतिः पालकः इति अर्थपतिस्तम् अर्थपति राजानं दशरथं च इति उभयं-द्वयमेव समये-काले जलं धनं च