________________
नवमः सर्गः
२४१
वर्षति ददाति चेति समयवर्षी समयवर्षिणः भावः समयवर्षिता, तया समयवर्षितया इन्द्रं काले वर्षाकर्तृत्वेन हेतुना, दशरथं च अवसरे प्राप्ते धनप्रदातृत्वेन हेतुना इति भावः । कृतं-अनुष्ठितं स्वं स्वं कर्म कर्तव्यं यैस्ते कृतकर्माणस्तेषां कृतकर्मणाम् नुदतीति नुदं श्रमस्य परिश्रमस्य-उद्यमस्येत्यर्थः नुदं-फलदायकमित्यर्थः । इति श्रमनुदं वदन्ति कथयन्ति ।
समासः-कृतं कर्म यैस्ते कृतकर्माणस्तेषां कृतकर्मणाम् । बलस्य निषूदनस्तम् । अर्थस्य पतिस्तम् अर्थपतिम् । दण्डस्य धरः दण्डधरः मनुरिति यः दण्डधर मनुदण्डधरः मनुदण्डधर एव अन्वयो यस्य स तं मनुदण्डधरान्वयम् । समये वर्षति तच्छीलः समयवर्षी तस्य भावस्तत्ता तया समयवर्षितया।
हिन्दी-विद्वान् लोग बलासुर को मारनेवाले इन्द्र और मनुवंशी धन के स्वामी दशरथ, इन दोनों को ही, समय पर वर्षा तथा धन दान देने के कारण, अपने-अपने कर्तव्य का पालन करने वालों के परिश्रम का फल देने वाले कहते हैं। अर्थात् इन्द्र समय पर वर्षा कर किसानों के तथा दशरथ सुकर्मियों को धन देकर उनके परिश्रम का फल देते हैं ।।३।।
जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः । क्षितिरभूत्फलवत्यजनन्दने शमरते मरतेजसि पार्थिवे ॥ ४ ॥
संजी०-जनपद इति । शमरते शान्तिपरेऽमरतेजस्यजनन्दने दशरथे पार्थिवे पृथिव्या ईश्वरे सति । 'तस्येश्वरः' (पा. ५।१।४२ ) इत्यण्प्रत्ययः। जनपदे देशे गदो व्याधिः । 'उपतापरोगव्याधिगदामयाः' इत्यमरः । पदं नादधौ । नाचक्रामेत्यर्थः । सपत्नजः शत्रुजन्योऽभिभवः कुत एव? असंभावित एवेत्यर्थः । क्षितिः फलवत्यभूच ॥ ४ ॥
अन्वयः-शमरते अमरतेजसि अजनन्दने पार्थिवे सति जनपदे गदः पदं न आदधौ सपनजः अभिभवः कुत एव क्षितिः फलवती अभूत् ।
व्याख्या-शमे-शान्तौ रतः लग्नः तत्पर इत्यर्थः इति शमरतः तस्मिन् शमरते = शान्तिपरायणे । अमराणां देवानां तेजः धाम इव तेजः यस्य स । अमरतेजास्तस्मिन् अमरतेजसि । नन्दयतीति नन्दनः, अजस्य नन्दनः प्रजनन्दनस्तस्मिन् अजनन्दने, पृथिव्याः ईश्वरः पार्थिवस्तस्मिन् पार्थिवे राजनि सति