________________
नवमः सर्गः
२३३
समासः - समाधिना जितानि इन्द्रियाणि येन स समाधिजितेन्द्रियः । उत्तरे च ते कोसलाः उत्तरकोसलस्तान् उत्तरकोसलान् । महान् रथो यस्य स महारथः । दशसु दिक्षु रथो यस्य सः दशरथः ।
हिन्दी - संयम से अपनी इन्द्रियों को जीतने वाले, तथा योगियों में और पालन करने वाले राजाओं में सर्वश्रेष्ठ महारथी दशरथ ने अपने पिता के पीछे उत्तरकोसल नामक प्रान्त का अच्छी प्रकार से शासन किया । अकेला दश हजार धनुर्धारियों के साथ युद्ध करने वाला और शस्त्रविद्या तथा शास्त्र में प्रवीण महारथ कहा जाता है ।
अधिगतं विधिवद्यदपालयत्प्रतिमण्डलमात्मकुलोचितम् । अभवदस्य तत्तो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः ॥ २ ॥
0
संजी० – अधिगतमिति । अधिगतं प्राप्तमात्मकुलोचितं स्वकुलागत सनगरं नगरजनसहितं प्रकृतिमण्डलं जानपदमण्डलम् । अत्र 'प्रकृति' शब्देन प्रजामात्रवाचिना नगरशब्दयोगाद्गोबलीवर्दन्यायेन जनपदमात्रमुच्यते । यद्यस्माद्विधिवद्यथाशास्त्रमपालयत् । ततो हेतोः । रन्ध्र करोतीति रन्ध्रहेतुरित्यर्थः । 'कृञो हेतुताच्छील्यानुलोम्येषु' ( पा. ३/२/२० ) इति टप्रत्ययः । नगस्य रन्ध्रकरो नगरन्ध्रकरः कुमारः 'कुमारः क्रौञ्चदारणः' इत्यमरः । तदोजसस्तत्तुल्यबलस्यास्य दशरथस्य गुणवत्तरमभवत् । तत्पौरजानपदमण्डलं तस्मिन्नतीवासक्तमभूदित्यर्थः ॥ २ ॥
अन्वयः - अधिगतम् आत्मकुलोचितं सनगरं प्रकृतिमण्डलं यत् विधिवत् अपालयत् ततः नगरन्ध्रकरौजसः अस्य गुणवत्तरम् अभवत् ।
व्याख्या -अधिगम्यते यत् तत् श्रधिगतम् = प्राप्तम् आत्मनः = स्वस्य कुलं-वंशः, इति श्रात्मकुलं तत्र उचितम् श्रभ्यस्तमिति श्रात्मकुलोचितम् स्वकुल क्रमादागतमित्यर्थः, नगरेण तत्रस्थजनेन सहितं सनगरं प्रकृतीनां = पौराणां राज्यांगानाञ्च मण्डलं = समूह:, इति प्रकृतिमण्डलम् । यत् = यस्मात् विधिना तुल्यं विधिवत् - यथाशास्त्रम् अपालयत्=जुगोप रक्षितवानित्यर्थः ततः = तस्मात् हेतोः रन्ध्र - छिद्रं करोतीति इति नगरन्ध्रकरः ।
रन्ध्रकरः । नगस्य = = पर्वतस्य = क्रौञ्चस्येत्यर्थः रन्ध्रकरः नगरन्ध्रकरस्य=कार्तिकेयस्य प्रोज इव प्रोजो बलं यस्य स तस्य नगरन्ध्रकरौजसः