________________
महाकविकालिदास कृत श्री रघुवंश महाकाव्य
नवम सर्ग पितुरनन्तरमुत्तर कोसलान्समधिगम्य समाधिजितेन्द्रियः । दशरथः प्रशशास महारथो यमत्रतामवतां च धुरि स्थितः ॥११॥
मंजी०-पितुरिति । समाधिना संयमेन जितेन्द्रियः । 'समाधिनियमे ध्याने' इति कोशः । यमवतां संयमिनामवतां रक्षतां राज्ञां च धुर्यग्रे स्थितो महारथः । ‘एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते ॥' इति । दशरथः पितुरनन्तरमुत्तरकोसलाञ्जनपदान्समधिगम्य प्रशशास । अत्र मनुः (७।१४४)-'क्षत्रियस्य परो धर्मः प्रजानां परिपालनम्' इति । द्रुतविल. म्बितमेतद्वृत्तम् । तल्लक्षणम्-'द्रुतविलम्बितमाह नभौ भरौ' इति ॥१॥
अन्नयः-समाधि जितेन्द्रियः यमवताम् अवतां च धुरि स्थितः महारथः दशरथः पितुः अनन्तरम् उत्तरकोसलान् समधिगम्य प्रशशास ।
व्याख्या-सम्यग् पासमन्तात् धीयतेऽनेनेति समाधिः । समाधिना-संयमेन जितानि वशीकृतानि इन्द्रियाणि-मनग्रादीनि खानि येन स समाधिजितेन्द्रियः, यमनं यमः । यमः = संयमः अस्ति येषां ते यमवन्तस्तेषां यमवतां-संयमिनाम् योगिनामित्यर्थः अवताम्-रक्षकाणां राज्ञां च धुरि अग्रे स्थितः- वर्तमानः सर्वश्रेष्ठ इत्यर्थः, रम्यतेऽत्र अनेन वासौ रथः । महान् रथो यस्य स महारथः धन्विविशेषः दशपूर्वो रथः दशरथ: दशरथनामा राजा पातीति पिता तस्य पितुः जनकस्य अनन्तरं पश्चात् को-पृथिव्यां सलन्ति ते कोसलाः उत्तरे च ते कोसलाः उत्तरकोसलास्तान् उत्तरकोसलान् जनपदविशेषान् समविगम्य-प्राप्य प्रशशास-प्रकर्षण शासितवान् ।