________________
रघुवंशमहाकाव्ये व्याख्या-सः = मुनिः शमनं शमः । वेलति, वेल्यतेऽनयेति वेला। प्रलयन प्रलयः, प्रलयस्य-प्रलयकालस्य ऊर्मिः- तरंगः इति प्रलयोर्मिः । शमः शान्तिरेव वेला मर्यादा, इति शमवेला, शमवेलायाः प्रलयोर्मिः, तेन शमवेलाप्रलयोर्मिणा । तपसः तपश्चर्यायाः प्रतिबन्धः विघ्नस्तेन यः मन्युः क्रोधस्तेन तपःप्रतिबन्वमन्युना, कारणेन । प्रकृष्टं मुखमस्येति प्रमुखम् प्रमुखे अग्रे-तृणबिन्दुसमक्षमित्यर्थः प्राविष्कृताः-प्रकटीकृताः चारवः मनोहराः विभ्रमाः विलासाः हावभावविशेषा इत्यर्थः यया सा ताम् प्रमुखाविष्कृतचारुविभ्रमाम्, तां-पूर्वोक्तां हरिणीम्, भुवि = मर्त्यलोके मनुष्यस्य मानुषी-नारी भव-भूयाः इति अशपत्-शापं दत्तवान् ।
ममासः-प्रलयस्य ऊर्मिः प्रलयोर्मिः, शमः एव वेला शमवेला तस्याः प्रलयोर्मिः शमवेलाप्रलयोमिः तेन शमवेलाप्रलयोर्मिणा । तपसः प्रतिबन्धस्तेन मन्युरिति तपःप्रतिबन्धमन्युस्तेन तपःप्रतिबन्धमन्युना। प्रमुख आविष्कृताः चारवः बिभ्रमाः यया सा प्रमुखाविष्कृतचारुविभ्रमा ताम् ।
हिन्दी-उस मुनि ने, शान्तिरूपी मर्यादा की प्रलयकालीन लहर ( शान्ति को नष्ट करने वाली तरंग) एवं तपस्या के विघ्न से उत्पन्न क्रोध से, सामने ही शृङ्गार चेष्टाओं को करने वाली उस हरिणी नाम की अप्सरा को, तू संसार में जाकर मनुष्य की स्त्री हो जा, यह शाप दे दिया ॥८॥
भगवन् ! परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे । इति चोपनतां क्षितिस्पृशं कृतवाना सुरपुष्पदशनात् ।।८१॥
संजी०-भगवन्निति । हे भगवन्महर्षे ! अयं जनः । परोऽस्यास्तीति स्वामित्वेन परवान् पराधीनः । 'अयम्' इत्यात्मनिर्देशः। अहं पराधीनेत्यर्थः । मे मम प्रतिकूलाचरितमपरावं क्षमस्वेत्यनेन प्रकारेणोपनतां शरणागतां च हरिणीमा सुरपुष्पदर्शनात् पुष्पदर्शनपर्यन्तम् । क्षिति स्पृशतीति क्षितिस्पृक्, तां क्षितिस्पृशं मानुषी कृतवानकरोत् । दिव्यपुष्पदर्शन शापावधिरित्यनुगृहीतवानित्यर्थः ।।८१॥
अन्धयः-हे भगवन् ! अयं जनः परवान् मे प्रतिकूलाचरितं क्षमस्व इति उपनतां च आसुरपुष्पदर्शनात् क्षितिस्पृशं कृतवान् ।
व्याख्या-भगं = माहात्म्यम् = परमैश्वयं वा अस्यास्तीति भगवान् तत्संबुद्धौ हे भगवन् हे महर्षे ! अयं-मल्लक्षणः जनः-व्यक्ति:-अहमित्यर्थः परः-स्वामी