________________
अष्टमः सर्गः
२२३
अस्यास्तोति परवान् =नाथवान् पराधीन इत्यर्थः । 'अतः' मे-मम प्रतिकूलं-विरुद्धं च तदाचरितम् आचरणमिति प्रतिकूलाचरितम् अपराध क्षमस्व-मर्षय, इति= अनेन प्रकारेण उप-समीपे नयति स्म या सा उपनता-शरणागता ताम् उपनतां च हरिणीम् । सुराणां पुष्पं सुरपुष्पं, सुरपुष्पस्य दर्शनमिति सुरपुष्पदर्शनम् । सुरपुष्पदर्शनपर्यन्तम् इति आसुरपुष्पदर्शनं तस्मात् आसुरपुष्पदर्शनात् स्वर्गीयकुसुमदर्शनपर्यन्तम् । क्षिति-पृथिवीं स्पृशति-स्पशं करोतीनि क्षितिस्पृक, तां क्षितिस्पृशं= पृथिवीनिवासिनीं मानुषीं कृतवान् अकरोत् । यदा दिव्यमालादर्शनं भविष्यति तदा ते शापात् विमुक्तिरिति अनुगृहीतवान् ।
समासः-प्रतिकूलञ्च तदाचरितमिति प्रतिकूलाचरितम् तत् । सुराणां पुष्पमिति सुरपुष्पम् तस्य दर्शनमिति सुरपुष्पदर्शनम् सुरपुष्पदर्शनाभिविधि इति आसुरपुष्पदर्शनात् ।
हिन्दी-हे भगवन् ! मैं पराधीन हूं अतः मेरे इस प्रतिकूल पाचरण ( अपराध ) को क्षमा करो। इस प्रकार शरण में आई उस हरिणी नामक अप्सरा को, ‘स्वर्गीय फूलों के देखने तक तुम पृथिवी में रहो', कहा। अर्थात् देव पुष्प देखने पर तुम्हारे शाप की समाप्ति होगी ॥१॥
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा। उपलब्धवती दिवश्युतं विवशा शापनिवृत्तिकारणम् ॥८२।।
संजी०-क्रथेति । क्रथकैशिकानां राज्ञां वंशे संभवो यस्याः सा हरिणी तव महिष्यभिषिक्ता स्त्री। 'कृताभिषेका महिषी' इत्यमरः । भूत्वा चिराय दिवः स्वर्गाच्च्युतं पतितं शापनिवृत्तिकारणं सुरपुष्पमुपलब्धवती विवशा। अभूदिति शेषः । मृतेत्यर्थः ॥२॥
अन्वयः-कथकैशिकवेशसंभवा सा तव महिषी भूत्वा, चिराय दिवः च्युतं शापनिवृत्तिकारणम् उपलब्धवती विवशा 'अभूदिति शेषः'। ___व्याख्या-क्रयकैशिकानां-विदर्भाणाम् विदर्भदेशोयराजानामित्यर्थः वंशे= अन्वये संभवः = उत्पत्तिर्यस्याः सा क्रयकैशिकवंशसभवा सा-हरिणी तव-भवतोऽजस्य मह्यते-पूज्यते इति सा महिषी-कृताभिषेका-राजपत्नीत्यर्थः भूत्वा चिरमयते इति चिराय-दीर्घकालपर्यन्तं दिवः स्वर्गात् च्युतं = भ्रष्टं पतितमित्यर्थः, शापस्य =