________________
अष्टमः सर्गः
२२१
अन्वयः-पुरा किल दुश्चरं तपः चरतः तृणविन्दोः परिशंकितः हरिः समाधिभेदिनीं हरिणीं सुराङ्गनाम अस्मै प्रजिघाय ।
व्याख्या-पुरति इति पुरा-चिरातीते काले किल-ऐतिह्ये दुःखेन चर्यते यत् तत् दुश्वरं-तीव्र घोरमित्यर्थः । तपः तप्यतेऽनेन वा तपः-कृच्छादिकर्म चरतः= कुर्वतः तपश्चर्या कुर्वत इत्यर्थः तृणं वेत्ति तच्छीलः तृणबिन्दुः बिदन्तीति वा-संसारं तृणं मन्यमानस्तस्मात् तृणबिन्दोः एतन्नामकान्महर्षेः परितः शंका संजातास्येति । परिशंकित: भीतः हरतीति हरिः इन्द्रः सम्यक समन्तात् धीयतेऽनेनेति समाधिः । समाधि भेत्तु शीलमस्याः सा समाधिभेदिनी तां समाधिभेदिनी-तपोविघ्नकारिणी हरितवर्णविशिष्टा हरिणी तां हरिणीं नाम सुरन्तीति सुराः। समुद्रोत्था सुरामदिरा अस्ति येषान्ते सुराः प्रशस्तानि अङ्गानि सन्ति यस्याः सा अंगना । सुराणां देवानाम् अंगना-स्त्री, इति तां सुराङ्गनाम् = अप्सरसम् अस्म = तृणबिन्दवे प्रजिघाय-प्रेरितवान् ।
समासः-परितः शंका संजातास्यासौ परिशंकितः । समाधेः भेदिनी समाधिभेदिनी तां समाधिभेदिनीम् । सुराणाम् अंगना तां सुराङ्गनाम् ।
हिन्दी-बहुत प्राचीन काल को बात है कि घोर तपस्या करने वाले तृणबिन्दु नाम के महर्षि से भयभीत हुए इन्द्र ने उनकी समाधि को नष्ट करने वाली हरिणी नामक अप्सरा को इनके पास भेजा ॥७९।।
स तपः प्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् । अशपद्भव मानुषीति तां शमवेलाप्रलयोमिणा भुवि ॥८॥
संजी०-स इति । स मुनिः । शमः शान्तिरेव वेला मर्यादा तस्याः प्रलयोर्मिणा प्रलयकालतरङ्गेण । शमविघातकेनेत्यर्थः । 'अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि' इत्यमरः । तपसः प्रतिबन्धेन विघ्नेन यो मन्युः क्रोधस्तेन हेतुना । प्रमुखेऽग्रे माविष्कृतचारुविभ्रमा प्रकाशितमनोहरविलासां तां हरिणी भुवि भूलोके मानुषी मनुष्यस्त्री भवेत्यशपच्छशाप ।।८०॥
अन्वयः-सः शमवेलाप्रलयोर्मिणा तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम् तां भुवि मानुषी भव इति अशपत् ।