________________
रघुवंशमहाकाव्ये समासः-गुणाः एव शेषाः यस्याः सा तां गुणशेषाम् । दशानाम् अह्नां समाहारो दशाहस्तस्मात् दशाहतः । महती ऋद्धिः येषु ते महर्द्धयः । वनम् उपगतमिति उपवनं तस्मिन् उपवने।
हिन्दी-इसके बाद शास्त्र को जानने वाले उस अज ने, केवल गुण ही जिसके बचे हैं ( मरी हुई ) ऐसी इन्दुमतो के उद्देश्य ( उसके नाम ) से दश दिन के बाद ( शुद्ध होने पर ) सम्पूर्ण क्रियाओं को उदारतापूर्वक अयोध्या के उपवन में ही समाप्त किया । अर्थात् उपवन में ही सारा श्राद्ध किया ॥७३।।
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः । परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रषु ॥७॥
संजी०–स इति । तयेन्दुमत्या विना । क्षणदाया रात्रेरपायेऽपगमे यः शशाङ्कश्चन्द्रः स इव दृश्यत इति क्षणदापायशशाङ्कदर्शनः । प्रातःकालिकचन्द्र इव दृश्यमान इत्यर्थः । दृश्यत इति कर्मार्थ ल्युट । सोऽजः पौरवधूमुखाश्रुषु स्वशुचः स्वशोकस्य परिवाहं जलोच्छवासमिवावलोकयन् । 'जलोच्छवासाः परीवाहाः' इत्यमरः । स्वदुःखपूरातिशयमिव पश्यन् पुरों विवेश । 'वधू' ग्रहणात्तस्यामिन्दुमत्यां सख्यभिमानादजसमानदुःखसूचकपरीवाहोक्तिनिर्वहति ।।७४।।
अन्वयः-तया विना क्षणदापायशशांकदर्शनः सः पौरवधूमुखाश्रुषु स्वशुचः परिवाहम् इव अवलोकयन् पुरी विवेश ।
व्याख्या-तया-इन्दुमत्या विना-रहितम् क्षणम् उत्सवं निर्व्यापारस्थिति वा ददातीति क्षरणदा-रात्रिः । शशतीति शशः । शशः-मृगः अंके-क्रोडे यस्य स शशांकः । क्षरणदायाः रात्रेः अपायः विनाश: समाप्तिरित्यर्थः तस्मिन् शशांक:चन्द्रः इव दृश्यते अवलोक्यते इति क्षणदापायशशांकदर्शनः प्रभातकालिकप्रक्षीणचन्द्र इव दृश्यमान इत्यर्थः । सः अजः पुरे भवाः पौराः वहति उह्यते वा वधूः । पौराणां = नागरिकाणां वध्वः स्त्रियस्तासां मुखानि आननानि इति पौरवधू. मुखानि, तेषु अश्रुणि =अस्राणि-नेत्रजलानीत्यर्थः, इति पौरवधूमुखाश्रुणि तेषु पौरवधूमुखाश्रुषु स्वस्य अजस्य शुक शोकः तस्याः स्वशुचः परितः सर्वतः वहतिप्रसरति इति परिवाहस्तं परिवाहं-जलो वासम् इव-यथा अवलोकयन्=पश्यन् पुरी नगरीम् अयोध्यामित्यर्थः विवेश-प्रविष्टः ।