________________
- अष्टमः सर्गः
२१५
हिन्दी-राजा अज विद्वान् होकर भी शोक दुःख के कारण अपनी पत्नी के साथ चितापर (मर गया ) ऐसी निन्दा को देख समझकर देवी इन्दुमती के साथ अपने शरीर को अग्नि में नहीं जलाया, न कि जीने की इच्छा से । अर्थात् प्राण का मोह नहीं था अज को किन्तु निन्दा का डर था। अतः मरे नहीं ॥७२॥
अथ तेन दशाहतः परे गुणशेषामपदिश्य भामिनीम् । विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः ॥७३।।
संजी.-अथेति । अथ विदुषा शास्त्रज्ञेन तेनाजेन । गुणा एव शेषा रूपादयो यस्यास्तां गुणशेषां भामिनीमिन्दुमतीमपदिश्योद्दिश्य । दशानामह्नां समाहारो दशाहः । 'तद्धितार्थ-- (पा. २१११५१) इत्यादिना समासः समाहारस्यकत्वादेकवचनम् । 'राजाहःसखिभ्यष्टच' (पा. ५।४।५१) इति टच । 'रात्राहाहाः पुंसि' (पा. २।४।२९ ) इति पुंवत् । ततस्तसिल । तस्माद्दशाहतः पर ऊवं कर्तव्या महर्द्धयो महासमृद्धयो विधयः क्रियाः पुरः पुर्या उपवन उद्यान एव समापिताः संपूर्णमनुष्ठिताः । 'दशाहतः' इत्यत्र 'विप्रः शुद्धय द्दशाहेन द्वादशाहेन भूमिपः' (५।८३ ) इति मनुवचनविरोधो नाशङ्कनीयः; तस्य निगुणक्षत्रियविषयत्वात् । गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः-'क्षत्रियस्तु दशाहेन स्वधर्मनिरतः शुचिः' इति । सूच्यतेऽस्यापि गुणवत्त्वं 'विदुषा' इत्यनेन ।।७३।।।
अन्वयः-अथ विदुषा तेन गुणशेषां भामिनीम उद्दिश्य दशाहतः परे महर्द्धयः विधयः पुरः उपवने एव समापिताः ।
व्याख्या-अथ अनन्तरम् वेत्तीति विद्वान् पण्डितस्तेन विदुषा शास्त्रजेन तेन-अजेन, गुण्यन्ते इति गुणाः, शिष्यन्ते शेषाः, गुणाः-रूपादयः एव शेषाः अवशिष्टाः यस्याः सा तां गुणशेषाम्, अवश्यं भामते इति भामिनी तां भामिनीम्= इन्दुमतीम् उद्दिश्य =तदुद्देशेनेत्यर्थः दशानाम् अह्नां समाहारः दशाहस्तस्मात् दशाहतः-दशदिनात् परे ऊध्वं कर्तव्याः विधीयन्ते इति विधयः ऋध्नोतीति ऋद्धिः महती-अधिका ऋद्धिः-समृद्धिः येषु ते महर्द्धयः विधयः क्रियाः पुरः नगरस्य उपगतं वनमिति उपवनं तस्मिन् उपवने आरामे एव समापिताः-अनुष्ठिताः।।