________________
२१४
रघुवंशमहाकाव्ये मगुरूणि-राजार्हाणि चन्दनानि-गन्धसाराः एधांसि इन्धनानि यस्य स तस्मै, अगुरुचन्दनधसे, अनिति अनेनेति अनलस्तस्मै अनलाय = अग्नये विससर्ज= विसृष्टवान् अग्निसंस्कारं कृतवानित्यर्थः ।
समासः-स्वश्चासौ जनः स्वजनः । तत् अन्त्यं मण्डनं यस्याः सा तां तदन्त्यमण्डनाम् । अगुरूणि चन्दनानि एधांसि यस्य स तस्मै अगुरुचन्दनधसे ।
हिन्दी-इसके पश्चात् कुटुम्बी जनों ने अज की गोद से किसी प्रकार (ज्यों त्यों छीनकर ) हटाकर और वह स्वर्गीय माला ही है अन्तिम अलंकार जिसका ऐसी उस सुन्दरी को अगर चन्दन की लकड़ियों की अग्नि में छोड़ दिया। अर्थात् अगरचन्दन की चिता में दाहसंस्कार कर दिया ॥७१।।
प्रमदामनुसंस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् । न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया ॥७२॥
संजी०-प्रमदामिति । नृपतिरजः सन्नपि विद्वानपि शुचा शोकेन प्रमदामनु प्रमदया सह संस्थितो मृत इति वाच्यदर्शनानिन्दादर्शनाद्देव्येन्दुमत्या सह शरीर• मग्निसादग्न्यधीनं न चकार । 'तदधीनवचने' ( पा. ५।४।५४ ) इति सातिप्रत्ययः । जीविताशया प्राणेच्छया तु नेति ॥७२॥
अन्वयः-नृपतिः सन्निति शुचा प्रमदाम् अनुसंस्थितः इति वाच्यदर्शनात् देव्या सह शरीरम् अग्निसात् न चकार जीविताशया तु न ।
व्याख्या-नृणां पतिः नृपतिः-राजा अजः सन्नपि-विद्वानपि शुचाशोकेन प्रकृष्टः मदः हर्षः यस्याः सा प्रमदा तां प्रमदाम् अनु पश्चात् स्त्रिया सह संस्थितः-मृतः इति वाच्यस्य-निन्दायाः दर्शनम् अवलोकनमिति वाच्यदर्शनं तस्मात् वाच्यदर्शनात् , दीव्यतीति देवी तया देव्या--इन्दुमत्या सह-साकम् शृणाति शोयते वा शरीरं देहम् कृत्स्नम् अग्न्यधीनं कृतमिति अग्निसात् = अग्न्यधोनं न चकार =न कृतवान् जीवितस्य-प्राणस्य आशा-इच्छा तया जीविताशया तु न-प्राणधारणेच्छया नहि। __ समासः -वाच्यस्य दर्शनं तस्मात् वाच्यदर्शनात् । अग्नेः अधीनम् कृतमिति अग्निसात् । आ समन्तात् अश्नुते इति आशा जीवितस्य आशा जीविताशा, तया जीविताशया।