________________
भष्टमः सर्गः
देवयन् विलापं कुर्वन् । प्रथते इति पृथिवी, पृथिव्यां रोहन्तीति पृथिवीरुहास्तान् पृथिवीरुहान् वृक्षान् अपिः समुच्चये, सुता:-क्षरन्तः शाखानां (शाखन्तीति शाखाः) लतानां रसाः मकरन्दाः एव बाष्पाः अश्रुणि तैः दूषिताः मलिनास्तान् सुतशाखारसबाष्पषितान् । अकरोत् कृतवान् । अचेतनवृक्षानपि अरोदयदित्यर्थः ।
ममासः–कोसलानाम् अधिपः कोसलाधिपः। करुणश्चासौ अर्थः करुणार्थः तेन ग्रथितं यथा स्यात्तथा करुणार्थग्रथितम् । पृथिव्यां रोहन्तीति पृथिवीरहास्तान् पृथिवीरुहान् । शाखानां रसाः शाखारसाः, ताः शाखारसाः एव बाष्पं तेन दूषितास्तान् सुतशाखारसबाष्पदूषितान् ।
हिन्दी-कोसल नरेश अज ने इस प्रकार करुणापूर्ण ( शोक व्याप्त ) होकर अपनी प्रिया इन्दुमती के लिए रोते हुए वृक्षों को भी बहते हुए शाखा के रसरूपी आँसुओं से मलिन कर दिया । अर्थात् अज के विलाप को देख सुन कर वृक्ष भी रो पड़े ॥७०॥
अथं तस्य कथंचिदङ्कतः स्वजनस्तामपनोय सुन्दरीम् । विससर्ज तदन्त्यमण्डनामनलायागुरुचन्दनैधसे ।।७१।।
संजी०-अथेति । अथ स्वजनो बन्धुवर्गः । तस्याजस्याङ्कत उत्सङ्गात् कथंचिदपनीय । तद्दिव्य कुसुममेवान्त्यं मण्डनमलंकारो यस्यास्ताम् । तां सुन्दरीमगुरूणि चन्द नान्येषांसीन्धनानि यस्य तस्मा अनलायाग्नये विससर्ज विसृष्टवान् । 'क्रियाग्रहणमपि कर्तव्यम्' इति क्रियामात्रप्रयोगे संप्रदानत्वाचतुर्थी ॥७१॥
त्वयः-अथ स्वजनः तस्य अङ्कतः कथंचित् अपनीय तदन्त्यमण्डनां तां सुन्दरीम् अगुरुचन्दनैधसे अनलाय विससर्ज।
व्याख्या-अथ = अनन्तरम् स्वश्चासौ जनः स्वजनः बन्धुवर्गः तस्य-अजस्य अङ्कयतेऽनेनेति अङ्कः । अंकादिति अंकतः क्रोडात् उत्सङ्गादित्यर्थः, कथंचित्= महता कष्टेन अपनीय-नीत्वा आदायेत्यर्थः, अन्ते भवमन्त्यम् तत्-दिव्यपुष्पमेव अन्त्यम्=अन्तिमम् मण्डनम् आभरणं यस्याः सा तां तद्दिव्यमण्डनाम् तां-प्रसिद्धा सु उनक्ति-चित्तं द्रवीकरोति, या सा सुन्दरी तां सुन्दरी रमणीम् । न गुरु: येभ्यस्तानि अगुरूणि, चन्दयन्तीति चन्दनानि, एधते एभिस्तानि एधासि ।