________________
२१२
रघुवंशमहाकाव्ये मस्येति एतावत्-इयदेव सुखयतीति सुखम्, शोभनानि खानि इन्द्रियाणि अनेन तत् सुखम् आनन्दः गण्यतां त्वया सह यत्सुखं भुक्तं तदतिरिक्तं न किमपि विचार्यतामित्यर्थः । "कुतः यतो हि" विलोभनानि = विषयाः, अन्यानि विलोभनानि विलोभनान्तराणि, तैः विलोभनान्तरैः न हृतः न आकृष्टः, इति अहृतस्तस्य प्रहृतस्य = अनाकृष्टस्य मम-अजस्य सर्वे सम्पूर्णाः विसिन्वन्ति-निबध्नन्ति इन्द्रियारिण ये ते विषयाः रूपरसादयः भोगाः त्वम् इन्दुमती आश्रयः अवलम्बः येषां ते त्वदाश्रयाः । तव वियोगे न मे किंचिदपि रोचते इति ।
समासः-न हृतः अहृतस्तस्य अहृतस्य । अन्यानि विलोभनानि विलोभनान्तराणि तैः विलोभनान्तरैः । त्वम् आश्रयो येषां ते त्वदाश्रयाः ।।
हिन्दी--"हे इन्दुमति" इतने ऐश्वर्य के होते हुए भी, तुम्हारे विना अज का केवल इतना ही सुख समझो ! ( अर्थात् तेरे साथ जो सुख भोगा है उसके अतिरिक्त अब कुछ भी न होगा) क्योंकि दूसरे किसी विषय में प्रेम न रखने वाले मेरे, सब सुख भोग तुम्हारे ही अधीन है। तुम्हारे विना मुझे कुछ भी अच्छा नहीं लगता है ॥६९॥ विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति । अकरोत्पृथिवीरुहानपि तशाखारसबाष्पदूषितान् ॥७०।।
संजी०-विलपन्निति । कोसलानामधिपोऽज इति करुणः शोकरसः स एवार्थस्तेन ग्रथितं संबद्धं यथा तथा प्रियां प्रतीन्दुमतीमुद्दिश्य विलपन्, पृथिवीरुहान् वृक्षानपि सूताः शाखारसा मकरन्दा एव बाष्पास्त दूषितानकरोत् । अचेतनानप्यरोदयदित्यर्थः ॥७०॥
अन्वयः-कोसलाधिपः इति करुणार्थग्रथितं यथा स्यात्तथा प्रियां प्रति विलपन् पृथिवीरुहान् अपि उतशाखारसबाष्पदूषितान् अकरोत् ।
व्याख्या-को-पृथिव्यां सलति-गच्छतीति शोभते वा कोसलः। अधिकं पातीति अधिपः, कोसलस्य-देशविशेषस्य अधिपः-स्वामी, इति कोसलाधिपः अजः इति–पूर्वोक्तप्रकारेण ऋच्छति अर्यते वा अर्थः । करुणः-दया शोकरस इत्यर्थः स चासौ अर्थः-प्रयोजनं तेन प्रथितं संबद्धमिति करुणार्थग्रथितं यस्मिन् कर्मणि तत् यथा स्यात्तथा प्रियां-भार्या प्रति, इन्दुमतीमुद्दिश्येत्यर्थः विलपन् = परि