________________
अष्टमः सर्गः
२११ अक्षिणी-नेत्रे यस्याः सा तत्संबुद्धौ हे मदिराक्षि ! मम-अजस्य आननं-मुखं तेन= अर्पितं-दत्तमिति मदाननार्पितम् रस्यते इति रसः रसः आस्वादः अस्यास्तीति रसवत्-अतीव स्वादु मन्यते इति मधु-मद्यं पीत्वा निपीय पानं कृत्वेत्यर्थः । वायति वाति वा बाष्पम् ऊष्माश्रु तेन दूषितं-मलिनम् अश्रुभिस्तप्तमित्यर्थः पिपर्ति पूर्यते वा अनेनेति परः अन्यश्चासौ लोकः ( लोक्यते इति लोकः ) भुवनमिति परलोकस्तस्मिन् परलोके-पितृलोके उपनतः प्राप्तः इति परलोकोपनतः । जलस्य-उदकस्य अञ्जलिः, (अज्यतेऽनेनेति अञ्जलिः) तं जलाञ्जलिम्-तिलोदकमित्यर्थः कथं केन प्रकारेण अनु अन्तरं पास्यसि-पानं करिष्यसि । अर्थात् मधुररसपानानन्तरमिदं पानं सर्वथानुचितम् ।
ममासः-मदिरे अक्षिणी यस्याः सा तत्संबुद्धौ हे मदिराक्षि ! मम आननमिति मदाननं तेन अर्पितं तत् मदाननार्पितम् । रसोऽस्यास्तीति रसवत् । बाष्पः दूषितः वादूषितस्तं बाष्पदूषितम् । परलोके उपनतः परलोकोपनतस्तम् । जलस्याञ्जलिरिति जलाञ्जलिस्तं जलाञ्जलिम् ।
हिन्दी-हे मदभरे नयनों वाली प्रिये ! मेरे मुख से दिये हुए सुस्वादु पासव (शराब) को पीकर “अब" आँसुओं के जल से गन्दली ( मलिन ) परलोक में प्राप्त हुई तिलांजलि को तुम कैसे पी सकोगी । अर्थात् न पी सकोगी ॥६॥
विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् । अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥६९।।
मंत्री०-विभव ऐश्वर्य सत्यपि त्वया विनाऽजस्यतावदेव सुखं गण्यताम् । यावत्त्वया सह भुक्तं ततोऽन्यन्न किंचिद्भविष्यतीत्यर्थः । कुतः ? विलोभनान्तरैर्विषयान्तरैरहृतस्यानाकृष्टस्य मम सर्वे विषया भोगादयस्त्वदधीनाः । त्वां विना मे न किचि द्रोचत इत्यर्थः ।।६९।।
अन्वय-विभवे सति अपि त्वया विना अजस्य एतावदेव सुखं गण्यताम्, 'कुतः विलोभनान्तरैः अहृतस्य मन सर्वे विषयाः त्वदाश्रयाः 'सन्तीति शेषः' ।
व्याख्या-विशेषेण भवतीति विभवस्तस्मिन् विभवे ऐश्वर्य सुखे च सति= विद्यमानेऽपि त्वया = इन्दुमत्या विना-त्वदभावे इत्यर्थः अजस्य-मम एतत् परिमाण