________________
रघुवंश महाकाव्यं
1
प्रयोगे शिष्यते या सा शिष्या प्रिया चासौ शिष्या च प्रियशिष्या - प्रियच्छात्रा आसीः एतेन सर्वानन्दस्त्वदधीन इति प्रकटितम् । अतस्त्वाम् - इन्दुमतीं मे समष्टिरूपाम् हरता = विनाशयता अत एव करुणायाः - कृपायाः विमुखः = रहितस्तेन करुणाविमुखेन= दयाशून्येनेत्यर्थः मरणं मृत्युस्तेन मृत्युना = यमेन मे = ममाजस्य किं = वस्तु न हृतं न विनाशितम् वद - कथय, अर्थात् मम तु सर्वस्वमेव हृतमित्यर्थः ।
समानः-- प्रिया चासौ शिष्या प्रियशिष्या । कलायाः विधिस्तस्मिन् कलाविधौ । करुणायाः विमुखस्तेन करुणविमुखेन ।
२१०
हिन्दी - तुम्ही मेरी स्त्री थी, संमति देनेवाली मंत्री थी, और एकान्त की सखी थी, तथा गाना बजाना आदि चौंसठ कलाओं के मनोहर कार्यों में प्रिय शिष्या थी " इस प्रकार मेरा सब कुछ तुम्हारे ही अधीन था", अतः तुमको छीनकर निर्दयी यमराज ने मेरा क्या नहीं छीना है तुमही बताओ ? अर्थात् मेरा तो सर्वस्व ही छीन लिया ॥ ६७ ॥
मदिराक्षि ! मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे । अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिम् ||६८ ||
0
संजी० -- मदिरेति । माद्यत्यनयेति मदिरा लोकप्रसिद्धा । तथापि 'नार्यों मदिरलोचनाः' इत्यादिप्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे प्रक्षिणी यस्यास्तत्संबुद्धि मदिराक्षि ! मदाननेनार्पितं रसवत् स्वादुतरं मधु मद्यं पीत्वा बाष्पदुषितमश्रुतप्तं परलोकोपनतं परलोकप्राप्तं मे जलाञ्जलि तिलोदकाञ्जलि कथं न्वनन्तरं पास्यसि ? तदनन्तरमिदमन र्हमित्यर्थः । यथाह भट्टमल्लः - 'अनुपानं हिमजलं यवगोधूमनिर्मिते । दध्नि मद्ये विषे द्राक्षे पिष्ठे पिष्टमयेऽपि च ।।' इति । तच्चे हैव युज्यते । इदं तूष्णं लोकान्तरोपयोगि चेत्यायुर्वेदविरोधात्कथमनुपास्यसीति
भावः ।। ६८ ।।
अन्वयः - हे मदिराचि मदाननार्पितं रसवत् मधु पीत्वा बाष्पदूषितं परलोकोपनतं जलाञ्जलिं कथं नु अनुपास्यसि ।
व्याख्या - माद्यति इति मदिरा = सुरा, इति लोकप्रसिद्धं तथापि नार्यो मदिरलोचनाः इति कविसम्प्रदायप्रसिद्धदर्शनात् माद्यति श्राभ्यामिति मदिरे - हर्षोन्मत्ते