________________
अष्टमः सर्गः
२०३
योजनम्=अर्थः गतम् = प्रपगतम् = समाप्तमित्यर्थः, शेतेऽस्मिन्निति शयनीयं = तल्पम् खट्वा इति यावत् । परितः शून्यमिति परिशून्यं = रिक्तम् वर्तते । त्वां विना मे सर्वं व्यथं जातमित्यर्थः ।
१४
समासः—आभरणानां प्रयोजनमिति आभरणप्रयोजनम् । परितः शून्यमिति परिशून्यम् । निर्गतः उत्सवः यस्मात् स निरुत्सवः ।
हिन्दी - हे प्रिये ! आज मेरा धैर्य टूट गया है । आनन्द जाता रहा । गाना बजाना छूट गया, वसन्तादि ऋतुएं उत्सवहीन हो गईं। अर्थात् फीकी पड़ गईं । और मेरा भूषण वस्त्र पहनना व्यर्थ है । और मेरा पलंग आज शून्य है । खाली पड़ा है । अर्थात् तुम्हारे बिना ये सब व्यर्थ ही हैं ॥ ६६ ॥
गृहिणी सचिवः सखो मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥६७॥
संजी० – गृहिणीति । त्वमेव गृहिणी दाराः । अनेन सर्वं कुटुम्बं त्वदाश्रयमिति भावः । सचिवो बुद्धिसहायो मन्त्री । सर्वो हितोपदेशस्त्वदायत्त इत्यनेनोच्यते । मिथो रहसि सखी नर्मसचिवः | सर्वोपभोगस्त्वदाश्रय इत्यमुना प्रकटितम् । ललिते मनोहरे कलाविधौ वादित्रादिचतुःषष्टिकलाप्रयोगे प्रियशिष्या । प्रियत्वं प्राज्ञत्वादित्यभिसंधिः । सर्वानन्दोऽनेन त्वन्निबन्धन इत्युद्घाटितम् । अतस्त्वां समष्टिरूपां हरतात एव करुणाविमुखेन कृपाशून्येन मृत्युना मे मत्संबन्धि किं वस्तु न हृतं वद । सर्वमपि हृतमित्यर्थः ॥६७।।
अन्वयः -- " त्वमेव" गृहिणी सचिवः मिथः सखी, ललिते कलाविधौ प्रियशिष्या "सी" "अतः " त्वां हरता "अत एव" करुणा विमुखेन मृत्युना मे किं न हृतम् ।
1
व्याख्या -- त्वमेव = इन्दुमती एव गृह्णाति सर्वं धान्यादिकमिति गृहिणी : दाराः कुटुम्बरक्षणात् । सहनं सचिः, सचि वातीति सचिव : = मन्त्री हितोपदेशकर्तृत्वात् । मेथतीति मिथ: - रहसि सखी - नर्मसचिवः सर्वानन्ददातृत्वात् ललनं ललितं तस्मिन् ललिते= मनोहरे कल्पते कलयतीति कला । कं लातीति कला, विधानं विधिः, कलायाः विधिस्तस्मिन् कलाविधौ = गीतावादित्रादिचतुष्षष्टिकला