________________
अष्टमः सर्गः
समासः -क्षरणदायाः अपायः क्षरणदापायस्तस्मिन् यः शशांकः इति क्षरणदापायशशांकः, स इव दृश्यते यः स क्षरणदापायशशांकदर्शनः । पौराणां वध्वस्तासां मुखानि तेषु श्रश्रूणि तेषु पौरवधूमुखाश्रुषु । स्वस्य शुक् स्वशुक् तस्याः स्वशुचः ।
हिन्दी - उस इन्दुमती के बिना, रात्रि के बीत जाने पर चन्द्रमा के समान दीखने वाले ( कान्तिहीन ) अज ने नगर की स्त्रियों के मुख के आँसूत्रों में मानो अपने शोक के प्रवाह को देखते हुए नगर में प्रवेश किया । अर्थात् उस समय स्त्रियाँ केवल अज को देखकर रो रही थीं। तो मानों उनके श्रसुनों से अज का शोक बह रहा था ॥७४॥
२१७
अथ तं सवनाय दीक्षितः प्रणिधानाद्गुरुर । श्रम स्थितः । अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥ ७५ ॥
संजी० - प्रथेति । अथ सवनाय यागाय दीक्षितो गुरुर्वसिष्ठ श्राश्रमे स्वकीयाश्रमे स्थितः सन् । तमजमभिषङ्गजडं दुःखमोहितं प्रणिधानाचित्तैकाग्र्याद्विजज्ञिवा'ज्ञातवान् । 'क्वसुश्च' ( पा. ३।२।१०७ ) इति क्वसुप्रत्ययः । इति वक्ष्यमाणप्रकारेण शिष्येणान्वबोधयत्कल । बुधेर्ण्यन्ताणिचि लङ् ॥७५ ||
अन्वयः - श्रथ सवनाय दीक्षितः गुरुः श्राश्रमस्थितः सन् तम् श्रभिषंगजड प्रणिधानात् विजज्ञिवान्, इति शिष्येण अन्वबोधयत् किल ।
व्याख्या - सूयतेऽनेन श्रत्र वा तत् सवनं तस्मै सवनाय - यज्ञाय दीक्षते स्म दीक्षितः दीक्षा संजातास्यासौ वा दीक्षितः-दीक्षावान् गृणाति धर्मादि, गिरति अज्ञानं वा स गुरुः= वसिष्ठः, आश्रमन्ति अत्र श्रनेन वा आश्रमः, श्रासमन्तात् श्रमः - स्वधर्मं साघनरूपक्लेशः अत्र वा आश्रमः तस्मिन् श्राश्रमे = वने मठे वा स्थितः = वर्तमानः इति श्राश्रमस्थितः सन् तम्=अजम् अभिषञ्जनमभिषङ्गस्तेन प्रभिषंगेन - दुःखेन जड: = मोहितस्तम् अभिषङ्गजडं प्रणिधीयतेऽत्र प्रणिधानं तस्मात् प्रणिधानात् चित्तैकाग्र्यात् समाधिनेत्यर्थः विजज्ञिवान् ज्ञातवान् इति = वक्ष्यमाणप्रकारेण शिष्यते इति शिष्यस्तेन शिष्येण = छात्रेण अन्वबोधयत् - बोधितवान् शिष्यद्वारा स्वोपदेशेनेत्यर्थः ।
=
समासः - आश्रमे स्थितः आश्रमस्थितः । श्रभिषंगेन जड: अभिषंगजडस्तम् अभिषङ्गजडम् ।