________________
२०६
रघुवंशमहायेका इव = यथा अश्नुते कण्ठमिति अश्रु कृस्यन्तीति कुसुमानि एव अश्रूणि = नेत्रजलानि, तानि वर्षति तच्छीलः कुसुमाश्रुवर्षी तेन कुसुमाश्रुवर्षिणा अमुनाएरोवर्तिना अशोकेन = वञ्जुलेन सुष्ठु गात्रं यस्याः सा तस्याः संबुद्धौ हे सुगात्रि ! - शोभनाङ्गि ! त्वम् इन्दुमती शोच्यसे-परितप्यसे ।
समासः--अन्य ः दुर्लभमिति अन्यदुर्लभम्, तम् । शब्देन सहितमिति सशब्दम्, सशब्दं नूपुरं यस्य स तं सशब्दनूपुरम् । चरणेन अनुग्रहस्तं चरणानुग्रहम् । कुसुमानि एव अश्रूणि कुसुमाश्रूणि कुसुमाश्रुणि वर्षेति तच्छोलस्तेन ।
हिन्दी-हे सुन्दर शरीरवाली प्रिये ! दूसरों के लिये सदा दुर्लभ, तुम्हारे झनझनाते विठ्ठों वाले चरणों के स्पर्शरूपी कृपा को मानों स्मरण करता हमा, अतः एव पुष्परूपी अाँसुओं की वर्षा करने वाला यह अशोकवृक्ष, तुम्हारे शोक में रो रहा है ॥६३।।
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया । असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि ! सुप्यते ? ॥६४|| संजी०-तवेति । तव निःश्वसितानुकारिभिर्बकुलैर्बकुलकुसुमैमया समं सार्धचितामधं यथा रचितां विलासमेखलामसमाप्यापूरयित्वा । किनरस्य देवयोनिविशेषस्य कण्ठ इव कण्ठो यस्यास्तत्संबुद्धिहें किन्नरकण्ठि ! 'अङ्गगात्रकण्ठेभ्यश्च' इति ङीप् । किमिदं सुप्यते निद्रा क्रियते ? 'वचिस्वपि-' (पा. ६।१।१५) इत्यादिना संप्रसारणम् । अनुचितमिदं स्वपनमित्यर्थः ॥६४॥
अन्वयः-तव निःश्वसिनुतानुकारिभिः वकुलै: मया समम् अर्धचितां विलासमेखलाम् असमाप्य हे किन्नरकण्ठि ! किमिदं सुप्यते।
व्याख्या-तव भवत्याः निःश्वसितं-श्वसनं, श्वासनिश्वासमित्यर्थः, अनुकुर्वन्ति=विडम्बयन्ति तच्छीलानि निश्वसितानुकारीरिण तैः निःश्वसितानुकारिभिः, उच्यन्ते वय॑न्ते कविभिस्ते वकुलास्तेषां पुष्पाणि वकुलानि तैः वकुलः केसरैः वकुलकुसुमैरित्यर्थः । मया अजेन सम-साकम्, अर्धं यथा स्यात्तथा चिता गुम्फिता रचिता ताम् अर्धचिताम् । न तु समग्रगुम्फिता इत्यर्थः । मखं-गति लातीति मेखला, विलसनं विलासः, विलासस्य-ललितस्य (शृंगारक्रियाविशेषस्ये