________________
अष्टमः सर्गः
२०५ तव-भवत्या अलन्तीति अलकाः कुटिलके शास्तेषामाभरणम् अलंकारभूतं तत्-कुसुमम् नु भो कथं केन प्रकारेण न्युप्यते निवापः मां लातीति माला, मल्यते धार्यते वा माला, माला एव माल्यम् 'माल्यं कुसुमतत्स्रजोरिति मेदिनी। निवापस्य पितृदानस्य माल्यं पूष्पम् तस्य भावस्तत्ता तां निवापमाल्यतां दाहावं दीयमानाञ्जलेरयंतां नेष्यामि = प्रापयिष्यामीत्यर्थः ।।
समासः-कृतं दोहदं यस्य स कृतदोहदः। न शोकोऽस्मादिति अशोकः । अलकानामाभरणमिति, अलकाभरणम् । निवापस्य माल्यं निवापमाल्यं तस्य भावस्तत्ता तां निवापमाल्यताम् ।
हिन्दी-हे प्रिये ! तुमने जिस अशोक वृक्ष को अपने चरण से ताडन किया ( स्पर्श किया ) है । वह अशोक वृक्ष भविष्य में फूल देगा। तब तुम्हारे धुंघराले केशों को सजाने के योग्य उन पुष्पों को मैं किस प्रकार दाह संस्कार के पश्चात् पितरों को दी जाने वाली तिलाञ्जलि में दूंगा। सुन्दरी के पादताडन से अशोक फूल देने लगता है—यह कवि-समयसिद्ध है इस पादताडन को 'दोहद' कहते हैं ॥६२॥
ग्मरतेव सशन न परं चरणानुग्रहमन्यदुर्लभम् । अमुना कुसुमाश्रवर्षिणा त्वमशोकेन सुगात्रि ! शोच्यसे ॥६॥
संजी०-स्मरतेति । अन्यदुर्लभम् । किंतु स्मर्तव्यमेवेत्यर्थः। सशब्द ध्वनियुक्तं नूपुरं मजीरं यस्य तं चरणेनानुग्रहं पादेन ताडनरूपं स्मरतेव चिन्तयतेव कुसुमान्येवाश्रूणि तद्वर्षिणाऽमुना पुरोवर्तिनाऽशोकेन । हे सुगात्रि ! 'अङ्गगात्रकण्ठेभ्यश्च' इति वक्तव्यान्डीप् । त्वं शोच्यसे ॥६३॥
अन्वयः-अन्यदुर्लभम् सशब्दनूपुरम् चरणानुग्रहम् स्मरता इव कुसुमाश्रुवषिपा अमुना अशोकेन हे सुगात्रि ! त्वं शोच्यसे । __ व्याख्या-दुःखेन लभ्यते इति दुर्लभम्, अन्यैः अपरैः दुर्लभम् दुष्प्राप्यम्, इति अन्यदुर्लभम्, किन्तु स्मरणीयमेवेत्यर्थः, शब्देन सहितं सशब्द, नवनं नूयते वा नूः नुवि पुरति अग्रे गच्छतीति नूपुरम्, सशब्दंसध्वनि नूपुरं मञ्जीरं यस्य स तं सशब्दनूपुरम्, चरन्ति= गच्छन्ति जना येन स चरणः। चरणेन-पादेन अनुग्रहः- ताडनरूपः इति चरणानुग्रहस्तं चरणानुग्रहम् स्मरता-चिन्तयता