________________
२०४
रघुवंशमहाकाव्ये
अन्वयः-ननुः सहकारः फलिनी च इमौ त्वया मिथुनं परिकल्पितम् , अनयोः विवाहसस्क्रियाम् अविधाय गम्यते इति असाम्प्रतम ।
व्याख्या-ननु हे प्रिये ! सह कारयति द्वन्द्वं मेलयतीति सहकारः अतिसौरभः पाम्रः, फलानि सन्ति अस्याः सा फलिनी प्रियंगुलता च अयञ्च इयञ्चेति इमौ=द्वौ त्वया इन्दुमत्या मेथति इति मिथुनं द्वन्द्वं परिकल्पितम्-मिथुनत्वेन स्वीकृतम्, अनयोः फलिनीसहकारयोः विशिष्टं वहनं विवाहः सती चासौ क्रिया, सत्क्रिया, विवाहस्य-पाणिग्रहणस्य सत्क्रिया = संस्कारविशेषः, इति विवाहसत्क्रिया तां विवाहसत्क्रियाम् अविधाय-असंपाद्य = अकृत्वेत्यर्थः गम्यते = प्रस्थीयते इति = एतत् गमनम्, असाम्प्रतम् अयुक्तम् । मातृविहोनानां संसारे न किमपि सुखमस्तीति भावः ।
समासः-सती चासौ क्रिया सत्क्रिया, विवाहस्य सत्क्रिया तां विवाहसत्क्रियाम् । न साम्प्रतमिति, असाम्प्रतम् ।
हिन्दी-हे प्रिये ! उस आम के वृक्ष और प्रियंगुलता का तुमने जोड़ ठीक किया था। इन दोनों का विवाह संस्कार किये बिना तुम जा रही हो, यह तो सर्वथा अनुचित है। क्योंकि बिना माँ के संसार में कुछ भी सुखकर नहीं होता है ।।६१॥
कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयष्यति । अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् १ ॥६२।।
संजी०–कुसुममिति । वृक्षादिपोषकं दोहदम् । त्वया कृतं दोहदं पादताडनरूपं यस्य सोऽयमशोको यत्कुसुममुदीरयिष्यति प्रसविष्यते। तवालकानामाभरणमाभरणभूतं तत्कुसुमं कथं नु केन प्रकारेण निवापमाल्यतां दाहाजलेरयंतां नेष्यामि ? 'निवापः पितृदानं स्यात्' इत्यमरः ॥३२।।
अन्वयः-- त्वया कृतदोहदः अशोकः यत् कुसुमम् उदीरयिष्यति, तव अलकाभरणं तत् कथं नु निवापमाल्यताम् नेष्यामि । __ व्याख्या- त्वया भवत्या इन्दुमत्या दोहम् आकर्षं ददातीति दोहदं कृतंविहितं दोहदं-चरणताडनरूपं यस्य स कृतदोहदः अयम् दृश्यमान: न शोकोऽस्मात् अशोकः वझुलः, वृक्षविशेष इत्यर्थः, यत् कुसुमं प्रसूनम् उदीरयिष्यति प्रसविष्यते,