________________
अष्टमः सर्गः
२०७
त्यर्थः ) मेखला-रशना-काञ्ची तां विलासमेखलाम् असमाप्य = अपूरयित्वा, किचित्, कुत्सितो वा नरः किन्नरः । किन्नरस्य=किंपुरुषस्य कण्ठः गलः= ध्वनिश्च इध कण्ठः यस्याः सा तत्संबुद्धौ हे किन्नरकण्ठि ! किमिदं सुप्यते शयनं क्रियते, इदानीं शयनं सर्वथानुचितमित्यर्थः ।
समास-निःश्वसितम् अनुकुर्वन्ति तैः निःश्वसितानुकारिभिः । अर्वं यथा स्वात्तथा चिता, अर्धचिता तामधुचिताम् । विलासस्य मेखलां तां विलासमेखलाम् । किन्नरस्य कण्ठ इव कण्ठो यस्याः सा तत्संबुद्धौ हे किन्नरकण्ठि ।
हिन्दी-हे किन्नर के समान कण्ठ वाली ( मधुरभाषिगी ) । तुम्हारे श्वास का अनुकरण करने वाले ( तुम्हारे श्वास के समान सुगन्ध वाले ) मौलसिरी के फूलों की उस सुन्दर माला को पूरी गूथे बिना तुम क्यों सो रही है, जो माला मेरे साथ प्राधी ही गुथी पड़ी है। अर्थात् माला को पूरी गुथे बिना तुम्हारा सोना अनुचित है ॥६४॥
समदुःखसुखः सखीजनः प्रतिपश्चन्द्रनिभोऽयमात्मजः । अहमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः ।।६५॥
संजी०–समेति । सखीजनः समदुःखसुखः, त्वदुःखेन दुःखी, त्वत्सुखेन सुखीत्यर्थः । अयमात्मजो बालः, प्रतिपच्चन्द्रनिभः । दर्शनीयो वर्धिष्णश्चेत्यर्थः । 'प्रतिपत्' शब्देन द्वितीया लक्ष्यते; प्रतिपदि चन्द्रस्यादर्शनात् । अहमेकरसोऽभिन्नरागः । 'शृङ्गा रादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः । तथापि जीवितसामग्रीसत्त्वेऽपीत्यर्थः । ते तव व्यवसायोऽस्मत्परित्यागरूपो व्यापारः प्रतिपत्त्या निश्चयेन निष्ठुरः क्रूरः । 'प्रतिपत्तिः पदप्राप्तौ प्रकृतौ गौरवेऽपि च । प्रागल्भ्ये च प्रबोधे च' इति विश्वः । स्मतुं न शक्यः किमुत कर्तुमिति भावः ।।६५।।
अन्वयः-सखीजनः समदुःखसुखः, अयम् आत्मजः प्रतिपचन्द्रनिभः, अहम् एकरसः "तथापि" ते व्यवसायः प्रतिपत्तिनिष्ठुरः ‘एवास्तीति शेषः'।
व्याख्या-सखीनां सहचरीणां जनः-समुदायः सखीजनः समानि-तुल्यानि दुःखानि कष्टानि सुखानि अानन्दाः यस्य स समदुःखसुखः । अयम्=पुरोवर्ती आत्मनः देहात् जातः उत्पन्नः पात्मजः बालः प्रतिपद्यते-उपक्रम्यतेऽनया मासादिः, सा प्रतिपद् । चन्दतीति चन्द्रः। प्रतिपदः-पक्षमूलस्य यः चन्द्रः चन्द्रमाः तेन