________________
१६४
रघुवंशमहाकाव्ये व्याख्या-शोचत्यनेनेति शुचिः धवलं शुद्धं स्मितम् ईषद्धास्यं यस्याः सा शुचिस्मिता तस्याः संबुद्धौ हे शुचिस्मिते ! हे इन्दुमति शठतीति शठः-अनृजुः कपटाशयः कितं वायति, कितवे वाति वा कितवः कितवस्य कर्म कैतवं, वत्सेपुत्रादिस्नेहपात्रेऽभिलाषोऽस्यास्तीति वत्सलः, कैतवेन-कपटेन वत्सलः-स्निग्धः, इति कैतववत्सलः इति-एतत् ध्र वं-सत्यं तव -इन्दुमत्याः विदितः-विज्ञातः अस्मि त्वया ज्ञातोस्मि, इत्यर्थः । यत्-यस्मात् माम् अजम् अनापृच्छय-अनामन्न्य न पृष्टवा इत्यर्थः, इतः मृत्युलोकात् परेषां लोकः परलोकस्तं परलोक-देवलोकं स्वर्गम् संनिवर्तनं संनिवृत्तिः न संनिवृत्तिः असंनिवृत्तिस्तस्यै असंनिवृत्तये -अपुनराग. मनाय गतासि-चलितासीत्यर्थः। .. __समासः-शुचि स्मितं यस्याः सा शुचिस्मिता तस्याः संबुद्धौ शुचिस्मिते । कितवस्य कर्म कैतवं कैतवेन वत्सलः कैतववत्सलः । न संनिवृत्तिः असंनिवृत्तिस्तस्यै असंनिवृत्तये । परेषां लोकस्तं परलोकम् ।
हिन्दी-हे पवित्र हंसी हंसने वाली इन्दुमती, मैं धूर्त और कपट पूर्वक प्रेम करने वाला हूं यह निश्चित सत्य तुमने जान लिया है। यह इसलिए कि मुझसे बिना पूछे तुम इस लोक से परलोक में फिर न लौटने के लिए चली गयो हो । अर्थात् सर्वदा के लिए चल बसी हो ।।४९।।
दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना । सहतां हतजीवितं मम प्रबलामात्मकृतेन वेदनाम् ।।५०॥
संजी०–दयितामिति । इदं मम हतजीवितं कुत्सितं जीवितं तावदादौ दयितामिन्दुमतीमन्वगादन्वगच्छद्यदि अन्वगादेव । 'यदि' अत्रावधारणे। पूर्व मूच्छितत्वादिति भावः । तर्हि तया दयितया विना कि किमर्थं विनिवृत्तं प्रत्यागतम् ? प्रत्या गमनं न युक्तमित्यर्थः । अत एवात्म कृतेन स्वदुश्चेष्टितेन निवृत्तिरूपेण प्रबलामधिक वेदनां दुःखं सहतां क्षमताम् । स्वयंकृतापराधेषु सहिष्णुतैव शरणमिति भावः ॥५०॥
अन्वयः-इदं मम हतजीवितं तावत् दयिताम् अन्वगात् यदि, 'तहिं' तया विना कि विनिवृत्तम् 'अत एव' प्रात्मकृतेन प्रबलां वेदनां सहताम् ।
व्याख्या-इदम् स्वात्मनः अंगुल्या निर्देशः मम अजस्य हन्यते स्म इति हतम् हतञ्च तत् जोवितमिति हतजीवितम् गर्हितजीवितम् तावत्-प्रथमं दय्यते स्म