________________
१३
अष्टमः सर्गः
१३३
संजी० - कृतवतीति । मयि चिरं भूरिशोऽप्यपराधं कृतवत्यपि । राधेः कर्तरि क्तः । यदा यस्माद्धेतोः । यदेति हेत्वर्थ: । 'स्वरादौ पठ्यते यदेति हेतौ ' इति गणव्याख्यानात् । अवधीरणामवज्ञां न कृतवत्यसि नाकार्षीः । तत्कथमेकपदे तत्क्षणे । 'स्यात्तत्क्षण एकपदम्' इति विश्वः । निरागसं नितरामनपराधमिमं जनम् । 'इमम्' इति स्वात्मनिर्देशः । मामित्यर्थः । श्रभाष्यं संभाष्यं न मन्यसे न चिन्तयसि ? ॥४८॥
अन्वयः - मयि चिरम् अपराद्धे अपि यदा त्वम् अवधीरणां न कृतवती सि, तत् कथम् एकपदे निरागसम् इमं जनम् श्राभाष्यं न मन्यसे |
=3
व्याख्या - मयि अजे चिरम् = चिराय = दीर्घकालमित्यर्थः अपराध्यति स्म इति अपराद्धस्तस्मिन् अपराद्धे=अपराधं कृतवति अपि, अपराद्ध इत्यत्र कर्तरि क्तः प्रत्ययः । यदा = यस्मात् हेतोः अवधीरणां = प्रवज्ञां न कृतवती असि नाकार्षीः तत्तस्मात् कथं=केन प्रकारेण एकपदे = तत्क्षणे निर्गतः प्रागसस्तं निरागसं निरपराधम् इमम् = मल्लक्षणम् जनम्=मामजमित्यर्थः श्रभाषितुं योग्यः प्राभाष्यस्तम् प्रभाष्यं = सम्भाष्यम् न=नहि मन्यसे=अवबुध्यसे । माम् संभाषितुं योग्यमपि न विचारयसीत्यर्थः । समासो व्याख्ययैव गतार्थः ।
हिन्दी - हे इन्दुमती, मेरे बहुत बार अपराध करने पर भी जब मेरा तिरस्कार तुमने कभी नहीं किया था तो अब एकाएक निरपराध मुझको सम्भाषण के योग्य भी क्यों नहीं समझ रही हो ||४८ ॥
ध्रुवमस्मि शठः शुचिस्मिते! विदितः कैतववत्सलस्तव । परलोकमसंनिवृत्तये यदनापच्छच गतासि मामितः ॥ ४६ ॥
संजी० – ध्र ुवमिति । हे शुचिस्मिते धवलहसिते । शठो गूढविप्रियकारी कैतवेन कपटेन वत्सलः कैतवस्निग्ध इति ध्रुवं सत्यं तव विदितस्त्वया विज्ञातोऽस्मि । ' मतिबुद्धि - ' ( पा. ३।२।१८८ ) इत्यादिना कर्तरि क्तः । 'क्तस्य च वर्तमाने ' ( पा. २।३।६७ ) इति कर्तरि षष्ठी । कुतः ? यद्यस्मात्, मामनापृच्छयानामन्त्र्य । इतोऽस्माल्लोकात् । परलोकमसंनिवृत्तयेऽपुनरावृत्तये गतासि ॥ ४९ ॥
अन्वयः——हे शुचिस्मिते । शठः कैतववत्सल इति ध्रुवं तत्र विदित्तः अस्मि, यत् माम अनापृच्छय इतः परलोकम असंनिवृत्तये गता श्रसि ।